Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कुर्वन्ति ते । यदि स्वार्थो न सिद्धयेत् तदा महत्त्वपूर्णानि लोकोपयोगीनि च कार्याण्यपि ते जनाः संत्यजेयुः । एतादृशा जनाः सामान्यजनाः प्रोच्यन्ते ।।
केचिज्जना मानवरूपेण राक्षसा अधमपुरुषाः कथ्यन्ते । एते जना न कदाचिदपि केषाञ्चिदपि च शुभं हितं मङ्गलं च कुर्वन्तीच्छन्ति च । एते तु सर्वत्र स्वकीयं स्वार्थमेव साधयन्ति । अत्र स्वहितसाधने ये केऽपि स्खलनमवरोधं च कुर्वन्ति, तेषां सर्वेषामप्यहितकरणे लज्जां नाऽनुभवन्ति एते मानवाः । विश्वस्मिन् विश्वे एतादृशा जना बहवो दृश्यन्ते ।
चेतन ! अद्य सर्वत्र विश्वयुद्धस्य भीतिरनुभूयते । यतः सर्वेषामपि देशानां सत्ताधीशा नागरिकाश्च स्वार्थसाधने तत्पराः सन्ति तदर्थं च ते यत्किमपि कर्तुं सन्नद्धाः सन्ति । इदानीं प्रायो विविधदेशाः अन्यदेशैः सह युध्यन्ते । एवं सर्वेष्वपि देशेषु नगरेषु समाजेषु परिवारेषु च सङ्घर्षः प्रवर्तते । सर्वेऽपि मनुष्याः 'सर्वमपि मदीयं स्यात्, सर्वेऽपि जना मदधीना भवेयुः' इति मन्यन्ते । यदा मनसि करुणाऔदार्य-मैत्री-सरलतादिसद्गुणानां स्थानं स्वार्थेन गृह्येत तदा विवेकोऽदृष्टो भवेत् । एवं सति अकार्य किं न भवेत् ? इति प्रश्नो भवति । ततश्चैवाऽस्माकं स्थितिरेतादृशी अस्ति - यावत् स्वकीयं स्वार्थं परस्परं सिध्येत् तावदेव संबन्धो विद्यते, अन्यथा तु क्षणमात्रेणैव मधुरः संबन्धोऽपि भग्नो भवति । निजपुत्र-पुत्री-पति-पत्नीत्यादिका अपि त्वां नाऽऽह्वयेयुः ।
कोणिकमहाराजः स्मर्यते । एष वीतरागमहावीरस्य परमोपासकस्य श्रेणिकमहाराजस्य पुत्र आसीत् । यदा कोणिको मातुर्गर्भे आगतस्तदा चेलणादेवी दुःस्वप्नं पश्यति स्म । ततो बालक एष कालान्तरेऽहितकरोऽस्ति - इति मात्रा ज्ञातम् । अतस्तया जनन्या जात एव स बालकः उत्करके त्यक्तः । एष वृत्तान्तः श्रेणिकमहाराजेन ज्ञातः । तत्क्षणं राज्ञा स त्यक्तबालकः सेवकसाहाय्येन स्वगृहमानीतः । राज्ञा सरोमाञ्चं स बालक आलिङ्गितः ।
उत्करके तस्य बालकस्य हस्तः क्षुद्रजन्तुना दष्टः । अतो बालकस्तीव्रवेदनया निरन्तरं रोदिति स्म । तदा श्रेणिकमहाराजेन पूयप्रपूरितस्तस्य हस्तः स्वमुखे प्रक्षिप्ता । एवं सति तत्पीडाऽल्पीभूता, अतः सो बालकः शान्तः स्वस्थश्च जातः । श्रेणिकमहाराजेनाऽत्यन्तप्रसन्नतया पुत्रस्य पालनं पोषणं च कृतम् । पुत्रः कोणिको यौवनं प्राप्तवान् । तस्य कुलीनकन्यया सह विवाहो जातः । एवं परिवारवेष्टितः श्रेणिकमहाराजः सानन्दं दिवसान् गमयति स्म ।
एकदा कोणिकस्य मनसि पापविचारः उद्गतः - मम पिता सत्तासक्तोऽस्ति । वृद्धत्वं प्राप्याऽपि स स्वयं नेतृत्वं न त्यक्ष्यति, अतोऽहं कदाऽपि न सत्ताधीशो भविष्यामि इति । एतदुष्टविचारेण कोणिकस्य मनो गृहीतम्, ततः सत्तालोलुपेन तेन कोणिकेन विना कारणं सहसैव पिता श्रेणिकमहाराजः कारागृहे प्रक्षिप्तः । प्रतिदिनं तेन कोणिकेन चर्मरज्जुना पिता ताड्यते स्म । तथाऽपि

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92