Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ज्येष्ठा भवन्त्येव जगत्यनेके ज्ञानं ददात्यत्र गुरुर्न चाऽन्यः । विभान्ति खे भानि सुधामयूखो विकासयत्युत्पलिनी सदैकः ॥३८॥ भवन्ति देवास्तु सहस्रशोऽन्ये नारायणो रक्षति लोकमेकः । सन्त्यत्र सिद्धा गुरवोऽप्यसंख्या ज्ञानप्रदः शङ्कर एव नाऽन्यः ॥३९॥ मीलन्ति केचिद्विकसन्ति केचित् सूर्योदये वै सुमनोविशेषाः । शोचन्ति नन्दन्ति च केचिदत्र क्रूरे विधौ दर्शयति प्रभावम् ॥४०॥ भवन्ति लोके बहुधा जलानि तथाऽपि गाङ्ग सलिलं प्रशस्यम् । सन्त्येव विद्या बहवो विचित्रा अध्यात्मविद्या सुतरां पवित्रा ॥४१॥ जगाम लङ्कां तरसा हनूमान् तीर्बोदधि साधु विना पतत्रे । विनैव शास्त्राध्ययनं सुभक्तः प्राप्नोति मोक्षं प्रविजित्य मोहम् ॥४२॥ सुप्तेषु जाग्रत्स्वथवा जनेषु स्तेनो हरत्येव धनं प्रवीणः । योगी प्रमाद्यस्त्वथ जागरूकः स्वान्तं स्मरस्तस्य वशीकरोति ॥४३॥ भवन्तु शौर्यादिगुणा नरस्य शीलं विना भान्ति न ते कदापि । सुवर्णवज्राभरणानि नार्या राजन्ति नैवाऽत्र विना सतीत्वम् ॥४४॥ पुष्पाणि दत्त्वाऽत्र मधुव्रतेभ्यो मधु प्रकामं परितोषयन्ति । अन्नं च पानं सुजनाय दत्त्वा धन्याः प्रभूतां जनयन्ति तृप्तिम् ॥४५॥ आकाशसंचार्यपि गृध्रसङ्घो मांसे सदैवाऽत्र निविष्टदृष्टिः । वेदान्तविद्वानपि कामिसार्थो नारीतनुं ध्यायति नित्यमेव ॥४६।। स्थितेऽपि सूर्ये हिमगौ भराशौ गृहान्धकारं हरति प्रदीपः । सन्त्वत्र सन्तो मुनयश्च कामं स्वीयो गुरुर्वारयते तमोऽन्तः ॥४७॥ वृद्धान् मुमूर्षुन् त्यजति प्रपञ्चे विधिनिहन्त्यत्र जिजीविषून् द्राक् । विनाश्य सस्यानि नदीप्रवाहः स्थाणून् विशुष्कान् विजहात्यबुद्धिः ॥४८॥ न मल्लिकायां फलमस्ति, पुष्पं नोदुम्बरे, नोभयकं तुलस्याम् । इभ्ये न विद्या, विबुधे न वित्तं, मूढे द्वयं नास्ति किमत्र कुर्मः ॥४९॥ सूर्ये गते पश्चिमशैलमूलं-नक्षत्रपुञ्जो लभते प्रकाशम् । अस्तं गते ह्यादिकवौ महात्मन्यन्येऽपि सन्तो विलिखन्ति किञ्चित् ॥५०॥ परस्य पद्यान्यपहृत्य चौरः प्रगल्भते वै तदसंनिधाने ।। द्योतं खरांशोरुपलभ्य चन्द्रः स्वल्पं प्रकाशं प्रददाति रात्रौ ॥५१॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92