Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ भर्तुः सुखं वाञ्छति धर्मपत्नी जिहीर्षते तस्य धनं तु वेश्या । स्वास्थ्यं पयो वर्धयते निपीतं प्राणान् हरत्येव विषं तु लीढम् ॥५२॥ बिडालराण्मूषिकवृन्दहन्ता मृगान् गजान् वा स कथं नु हन्यात् । गद्यानि पद्यानि लिखेदभीक्ष्णं नैदंयुगीनो रचयेत्तु शास्त्रम् ।।५।। यस्याऽस्ति वित्तं स तु नैव दत्ते यो दित्सते सोऽस्ति सदा दरिद्रः । अपेयवारिः सुमहान् उदन्वान् सरांसि शुष्काणि कृतानि धात्रा ॥५४॥ संमार्जनी माष्टिं गृहं समस्तं साऽवज्ञया क्षिप्यत एव कोणे । प्रक्षाल्य पात्राणि विशोध्य गेहं दासी बहिर्मोजनकाल आस्ते ॥५५॥ पुष्पं लतायामिव कण्टकाश्च भवन्ति हेतुस्तु विधेविलासः । प्राज्ञोऽस्ति राज्ञः समितौ खलाश्च तत्कारणं भूमिपधीविकारः ॥५६॥ विच्छिद्यमानोऽपि तरुः प्ररूढो भात्याश्रयं पक्षिगणाय दातुम् । सम्पीड्यमानोऽपि कृपालुरुग्रैर्जीवत्यनाथान् परिपातुकामः ॥५७॥ फलप्रदः सर्वजनोपयोगी सन्नारिकेलो भुवि कल्पवृक्षः । ज्ञानप्रदाता भवभीतिहारी चिन्तामणिः सद्गुरुरुन्नतात्मा ॥५८॥ वैद्यस्य मैत्री बहुधाऽस्ति वाचि साध्वौषधं किन्तु धनेन लभ्यम् । भक्तिर्गुरौ काममिहाऽस्तु शुद्धा लभ्येत भूर्यध्ययनेन विद्या ॥५९॥ दुग्धेन मिश्रं सलिलं सितं स्यात् किं तावता नास्ति तयोविभेदः ? बुधेन साकं चरतो जडस्य वेषः समानोऽस्तु न वै समत्वम् ॥६०॥ वृक्षस्य पत्रं हरितं च तिक्तं पुष्पं तु रक्तं मधुरं फलं च । वाक्यं गुरोः स्यात् परुषं च रूक्षं दया त्वपारा प्रयता च विद्या ॥६१॥ परिश्रमैर्यन्मधु मक्षिकाभिः संगृह्यते तङ्क्रियते नृभिर्द्राक् । यत्नैः पितृभ्यां शिशुरेध्यमानः कृतान्तदूतैरपनीयते साक् ॥६२॥ आशा न शाम्यन्ति नरस्य भोगैः पुनः पुनस्ता अधिका भवन्ति । कीशस्य चेष्टा विरमन्ति नैव फलप्रदानैर्द्विगुणीभवन्ति ॥६३॥ जग्ध्वा तृणं गौः प्रददाति दुग्धं भस्मीकरोत्यग्निरुपेत्य तद् द्राक् । आकर्ण्य वेदान् शममेति साधुः श्रुत्वाऽपि तान् कुप्यति दुष्टचित्तः ॥६४॥ अधीत्य वेदानवगम्य शास्त्रं करोत्यहो दुष्टमना विनाशम् । चर्वंश्च पर्णानि फलानि खादन् वन्यो गजो ध्वंसयते महीजम् ॥६५।।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92