Book Title: Nandanvan Kalpataru 2018 06 SrNo 40 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ प्रास्ताविकम् "राष्ट्रेण समाजेन वाऽस्मदर्थं किं कृतम् ? - इति मा पृच्छन्तु, अस्माभिः राष्ट्रस्य समाजस्य वा कृते किं विहितम् ? किं वा वयं श्रेष्ठराष्ट्रस्य श्रेष्ठसमाजस्य च निर्माणार्थं कर्तुं शक्ताः ? - इति पृच्छन्तु" । - जहोन एफ्. केनेडी (अमेरिकीयः पूर्वराष्ट्रप्रमुखः) श्रेष्ठराष्ट्रस्य श्रेष्ठसमाजस्य च निर्माणार्थं किमावश्यकम् ? एकमेव वस्तु आवश्यकम् । तदस्ति राष्ट्रीयचारित्र्यम् । राष्ट्रीयचारित्र्यं नाम उत्तमं शिक्षणं, परिपक्वा नीतिमत्ता, सहजमनुशासनम्, उदात्ताः संस्काराः, उत्कटं च राष्ट्रप्रेम । एतेषामेतादृशामन्येषां च मूल्यानां क्षेत्रे यो भारतदेशो जगदप्यतिशेते स्म प्राक्काले तस्मिन्नेव देशेऽद्यत्वे मूल्यान्येतानि शिक्षणीयानि हठाच्च ग्राहयितव्यानि भवन्तीति कीदृशीयं विडम्बना ? यद्यपि मूल्यानामेतेषां कानिचित् पृषन्ति सम्प्रत्यपि यत्र-कुत्रचिद् दृष्टिपथं समायान्त्येव, तथाऽपि सामस्त्येनाऽवलोक्येत यदि, तदा ज्ञायते यद् आ बहोः कालादेवैतादृशां मूल्यानां तथाविधो हासो जातोऽस्ति यथा यदि कश्चनैतादृशमूल्यानां प्राधान्यं वर्णयेत् तत्प्रधानं वा जीवनं जीवेत् तदा स जनै रूढिवादी वा, जडो वा, अव्यावहारिको वा परिगण्येत । (एवं सत्यपि वयमस्माकं राष्ट्र समाज वैवोत्कृष्टतया परिगणयन्तो नैव विरमाम इत्यपरेयं विडम्बना खलु !)। __यदा वयम् अमेरिका-केनेडाप्रमुखपाश्चात्यदेशानां, फ्रान्स-स्पेन-स्वीडन-जर्मनीप्रभृतियुरोपीयदेशानां जपान-कोरियादिपौर्वात्यदेशानां शिक्षणव्यवस्थायाः, समाजव्यवस्थायाः, रक्षणव्यवस्थायाः, तत्तद्राष्ट्रीयनागरिकाणां च स्वयंस्फूर्ताया अनुशासनप्रियतायाः, जागरूकतायाः, नीतिमत्तायाः, राष्ट्रभक्तेः, मानवतायाश्च विषये पठामः शृण्मो वा तदा मन एकतः परितोषमनुभवति अपरतश्चाऽस्माकं परिस्थिति दृष्ट्वा सन्तपति यद् - यद्यपि तेषां भोगप्रधाना हिंसाप्रधाना च संस्कृतिस्तथाऽपि ते ईदृशाः संस्कारवन्तो नीतिमन्तश्चः, तद्विपर्यासेन च, यदर्थं वयं सदा गर्वं वहामस्तादृशी यद्यप्यस्माकं धर्मप्रधाना, त्यागप्रधाना, करुणाप्रधाना अहिंसाप्रधाना च संस्कृतिस्तथाऽपि वयमीदृशाः संस्कारहीनाः नीतिरहिताश्च । यत्रैव पश्यामस्तत्रैव अनीतिः, असत्यम्, अविवेकोऽनाचारश्चैव दृग्गोचरीभवन्ति । कस्याऽस्ति ननूत्तरदायित्वमेतत्सर्वस्य कृते ? किं सर्वकारस्य ? किमारक्षकाणाम् ? किं समाजसेवकानाम् ? किं धर्मगुरूणाम् ? किं शिक्षकाणाम् ? अथवा नागरिकाणाम् ? सर्वेषामप्येतेषामुत्तरदायित्वमस्ति, परं विशेषतो नागरिकाणामस्माकमेव । वयमेवाऽर्थात् सामान्यजनता एव यदि मनसा दृढीभूयाऽनीतेरसत्यादनाचाराच्च विरताPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 92