Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ वाचकानां प्रतिभावः समादरणीयाः कीर्तित्रयोति प्रथिताः मुनिवराः सादरं प्रणतयः । मासद्वयात् पूर्वमेव भवद्भिः प्रीत्या प्रेषिते सञ्चिके प्राप्ते । 'शासनसम्राड्-विशेषः-१' सञ्चिकायां दत्ता श्रीविजयनेमिसूरीश्वराणां जीवनगाथा सुगमा सुरम्या च । अर्थानुरूपाणि भावविस्फुरणक्षमाणि च वर्णरञ्जितचित्राणि चेतः आह्लादयन्ति । अविदुषां सौकर्याय १७२ पृष्ठे सन्धिविवरणं, तदग्रिमपुटे च शब्दार्थों इति यद् दत्तं तद् नूनं सम्पादकानां सहदयतां स्फुटयति; श्लाघ्यः अनुकरणीयश्चाऽयं क्रमः । तदर्थमभिनन्दनानि । मसृणं कागदं, प्रस्फुटं मुद्रणम्, सुभद्रं बन्धनम् इति सर्वमपि उत्तमं वर्तते । ग्रन्थसमीक्षा वाचकानां महते लाभाय । 'वेषस्य संस्कृतेश्च का सम्बन्धः ?' इति नागराजवर्यस्य लेखोः हृदयङ्गमः । हृद्भावतन्तुतोदकोऽयं प्रसङ्गः अस्मान् आत्मपरीक्षणार्थं प्रेरयति । 'मर्म-नर्म' विभागोऽपि नूनं ददाति शर्म । रेखाचित्राणि मनोज्ञानि । विशेषाङ्कस्य द्वितीयसम्पुटोऽपि सङ्ग्रहयोग्यं सङ्कलनम् । मुनिकल्याणकीर्तिविजयवर्येण लिखिताः तिस्रः कथा उद्बोधिकाः । अन्येऽपि लेखा मौल्यपूर्णाः । तत्र तत्र रिक्तस्थलेषु दत्ताः श्लोका मानसं समुल्लासयन्ति । प्रत्येकस्मादपि पुटाद् यथा श्रद्धालवो वाचका अमूल्यान् धर्म-नीतिसंस्कृति-संस्कृत-अध्यात्मविषयान् शिक्षेरन् तथाऽवहितमस्ति सम्पादकैः । एते प्रेषितवद्भ्यः भवद्भ्यो हार्दै कृतज्ञताः । - ब्र. सोमशेखरः बेलूडुमठः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 106