________________
वाचकानां प्रतिभावः
समादरणीयाः कीर्तित्रयोति प्रथिताः मुनिवराः
सादरं प्रणतयः । मासद्वयात् पूर्वमेव भवद्भिः प्रीत्या प्रेषिते सञ्चिके प्राप्ते । 'शासनसम्राड्-विशेषः-१' सञ्चिकायां दत्ता श्रीविजयनेमिसूरीश्वराणां जीवनगाथा सुगमा सुरम्या च । अर्थानुरूपाणि भावविस्फुरणक्षमाणि च वर्णरञ्जितचित्राणि चेतः आह्लादयन्ति । अविदुषां सौकर्याय १७२ पृष्ठे सन्धिविवरणं, तदग्रिमपुटे च शब्दार्थों इति यद् दत्तं तद् नूनं सम्पादकानां सहदयतां स्फुटयति; श्लाघ्यः अनुकरणीयश्चाऽयं क्रमः । तदर्थमभिनन्दनानि । मसृणं कागदं, प्रस्फुटं मुद्रणम्, सुभद्रं बन्धनम् इति सर्वमपि उत्तमं वर्तते । ग्रन्थसमीक्षा वाचकानां महते लाभाय । 'वेषस्य संस्कृतेश्च का सम्बन्धः ?' इति नागराजवर्यस्य लेखोः हृदयङ्गमः । हृद्भावतन्तुतोदकोऽयं प्रसङ्गः अस्मान् आत्मपरीक्षणार्थं प्रेरयति । 'मर्म-नर्म' विभागोऽपि नूनं ददाति शर्म । रेखाचित्राणि मनोज्ञानि । विशेषाङ्कस्य द्वितीयसम्पुटोऽपि सङ्ग्रहयोग्यं सङ्कलनम् । मुनिकल्याणकीर्तिविजयवर्येण लिखिताः तिस्रः कथा उद्बोधिकाः । अन्येऽपि लेखा मौल्यपूर्णाः । तत्र तत्र रिक्तस्थलेषु दत्ताः श्लोका मानसं समुल्लासयन्ति । प्रत्येकस्मादपि पुटाद् यथा श्रद्धालवो वाचका अमूल्यान् धर्म-नीतिसंस्कृति-संस्कृत-अध्यात्मविषयान् शिक्षेरन् तथाऽवहितमस्ति सम्पादकैः । एते प्रेषितवद्भ्यः भवद्भ्यो हार्दै कृतज्ञताः ।
- ब्र. सोमशेखरः
बेलूडुमठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org