________________
= वाचकानां प्रतिभावः
मान्याः ,
9999
सादरं प्रणतयः ।
'नन्दनवनकल्पतरोः' एकविंशतितमयनमधिगम्य प्रसीदामि । अत्र सर्वा रचना रम्या हृद्याश्च । आचार्यश्रीविजय-उदयसूरिप्रणीतं श्रीविजयनेम्यभ्युदयमहाकाव्यमपूर्णमपि नितरां मार्मिकम् । अस्मिन् काव्ये प्रणेतुः पाण्डित्यं पदे पदे विराजतेतराम् । मधुपुरीवर्णनं कस्य चित्तं न चमत्करोति ?
'सौभाग्यलक्ष्मीमवलोक्य यस्याः,
किं नाऽलका स्वां विजितामवैति । भोगावती सा तत एव नूनं
पातालवासं वरमभ्युपैति ॥' (श्रीविजय. १/४४) प्रा. अभिराजराजेन्द्रमिश्रस्य ‘स आसीन् मम तातपादः' इति कथा सर्वथा हृदयं संस्पृशति, तस्य च संवेदनशीलतां सहानुभूतिं दीनानुकम्पां च सम्यगभिव्यनक्ति। किन्तु, मम मतौ, कथेयं काल्पनिकीव विद्यते । यस्य तातपादोऽभिभावको वा प्रयागविश्वविद्यालयस्य प्रतिष्ठितः प्राध्यापक आसीत् तदध्ययनकाले सः कथमनाथ इवाऽभूत् ? किमपि भवतु । कथेयं सर्वथा मार्मिकी प्रशंसनीयतरा च।
संस्कृतभाषायाः साहित्यस्य च संरक्षणे संवर्धने च 'नन्दनवनकल्पतरोः' प्रयासाः सर्वथाऽभिनद्यसत्त्वाः सन्ति । अत्र श्रीमुनिधर्मकीर्तिविजयस्य पत्रं नितरां प्रेरणाप्रदमस्ति । जयतु संस्कृतं संस्कृतिश्च ।
डा. रूपनारायणपाण्डेयः
प्रयागः
म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org