________________
वाचकानां प्रतिभावः
कीर्तित्रय्या सङ्कलितं नन्दनवनकल्पतरोः शासनसम्राड्विशेषाङ्कं दृष्ट्वा मम मानसममोदिष्ट । आचार्यश्रीविजयोदयसूरिविरचितं श्रीविजयनेम्यभ्युदयमहाकाव्यमत्र सप्तमसर्गान्तं यावद् दत्तम् । अस्य काव्यस्यैतावदेवोपलब्धिरिति दुःखायते ममाऽन्तरङ्गम्। संस्कृतज्ञाः प्रकृतिरक्षणादिषु श्रेयःकार्येष्वसक्ता इति मिथ्यावादं दूरीकरोति काव्यमिदम् । ततो दृष्टं श्रीप्रतापविजयविरचितं विजयनेमिसूरीश्वरगुवेष्टकं यत्र पदे पदेऽर्थविशेषाः स्फुरन्ति । तत्र पद्यद्वयं गोमत्रिकाबन्धे रचितमिति पुनर्विशेषः । नमामि नेमिनामानमित्यादि व्यक्षरं श्लोकं दृष्ट्वाऽस्मन्मनो भारवि स्मरति । विजयशीलचन्द्रसूरिरचितं गुरुस्तुत्यष्टकं च सश्रद्धं पठितम् । तत्कर्तृकं परमगुर्वष्टकं चाऽऽनन्दमजनयत् । अज्ञातकर्तृकं श्रीनेमिसूरीश्वरस्तुत्यष्टकं नितान्तं सन्तोषं सन्तन्तनीति । विश्वविख्यातः प्रा. अभिराजराजेन्द्रः 'सद्धर्मदं विजयनेमिमहं प्रणौमि' इति नाम कृत्वा रचितवान् अष्टौ पद्यानि । कविभालचन्द्रेण प्रशस्तिनाम्नाऽष्टविंशतिसंख्यानि पद्यानि दत्तानि । ततो हृद्यानि गद्यानि विद्योतन्ते । भज जिनराजम् इति गीतिर्मुनिकल्याणकीर्तिविजयरचिता ततो विराजते । आचार्यरामकिशोरमिश्रप्रणीतं सरस्वतीवन्दनं सरलसुभगपदावलीभूषितं च दृश्यते। पुनः परिपक्वं मुनिधर्मकीर्तिविजयसाहित्यं लभ्यते आस्वादनाय । जेरोमवीडमनस्य कथा मुनिरत्नकीर्तिविजयपादानूदिता लोचनगोचरीभवति । अस्यां कथायां सङ्गीतविषये आसक्तिमदर्शयतः कथानायकस्य मनःपरिवर्तनं कथं जातमिति हृद्यया रीत्या वर्णितम् । मुनिकल्याणकीर्तिविजयविरचिता स्तोककथात्रयी वाचकानां चेतांस्याकृषति । सरला भाषाऽस्याः कथात्रय्या भूषणम् । अभिराजराजेन्द्रमिश्रकृतस्तातपादपरिचयो मनोज्ञः । विद्याभ्यासाय साहायकं केन कदा कथं दास्यत इति वक्तुं न शक्यते । न कुलं, न जातिः, किन्तु मानवता मुख्येत्यत्र सम्यक् प्रतिपाद्यते । कण्ठाभूषणनाम्न्यां कथायां तु आचार्यरामकिशोरमिश्रो लोपामुद्रागस्त्ययोः संवादं प्रस्तुत्य धर्मरहस्यमुद्घाटितवान् । पाउअपाउडम् (प्राकृतप्राभृतम्) इति विभागो विदुषा भाषाप्रवीणेन अरैयर श्रीरामशर्मणोपहृतः। अतीव रोचकोऽयं प्रबन्धो मम सहपाठिना (सतीर्थ्येन) श्रीरामशर्मणोपहृत इति महतः प्रमोदस्य स्थानम्। अहं त्वलसशिरोमणिः संस्कृतपठनमात्रेण श्रान्तः । स तु नानाभाषासु ग्रन्थान् रचयति । शतशः शिष्यानध्यापयतीति सन्तुष्यामि ।
नन्दनवनकल्पतरोरयमङ्को नितरां वाचकानामानन्दं जनयतीति विवक्षामि। कीर्तित्रय्यै भूयिष्ठां नमउक्तिं समर्पयामि।
इति सुधीविधेयः मैसूरुनगरम्
एच्. वि. नागराजराव्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org