________________
वाचकानां प्रतिभावः
"नन्दनवनकल्पतरुप्रशंसा"
देवराजरक्षिते देवलोकनन्दने । भक्तवाञ्छितप्रदः कल्पपादपो महान् ॥१॥
कल्पवृक्षभूषितं नन्दनं दिवि स्थितम् । शब्दपुष्पसंयुतं
मर्त्यलोकमागतम् ॥२॥ धरातले नन्दनकाननस्थो विद्वज्जनानन्दकरः स वृक्षः । षण्मासषण्मासविशेषकल्पो जयत्यसौ जैनमतप्रशस्तः ।।३।।
जिनमतपरिपक्वः सुन्दरो लोकमान्यो विविधबुधविचारैः पूरितः सर्वपूज्यः । फलभरनतशाखानम्रकल्पद्रुमोऽयं
भुवि जनमनवाञ्छापूरणेऽत्यन्तदक्षः ॥४॥ नन्दनवनकल्पतरुर्जगति मानवमनमोदरतो जयति। सुन्दरवचनामृतबोधरतश्चन्द्रधवलकीर्त्यजरो भवतु ॥५॥
विद्वान् महाबलेश्वरशास्त्री
बेङ्गलूरुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org