________________
प्रास्ताविकम्
तमसो मा ज्योतिर्गमय मासत्रयात् पूर्वं मुम्बईनगर्यामातङ्ककारिण आक्रमणं कृतवन्तः । यदा कदाचिदेतादृशं किमपि घृणास्पदं कृत्यं देशे सर्वत्र भवत्येव । अनेन यः कोऽपि - यदि साधुरपि स्यात् कुपितः स्यादेव । बहुशतसङ्ख्याकानां निर्दोषाणां जनानां रक्तेन रञ्जिता जाता पृथ्वी । जनाक्रोशोऽपि तावान् प्रवृद्धो यद् युद्धमेवाऽत्रोपाय इत्यत्र सर्वेषा(राजनैतिकान् विहाय)मैकमत्यं जातम् । प्रतिक्रियैषा स्वाभाविक्येवाऽऽसीत् । किन्तु शनैः शनैः सर्वमपि शान्तं जातम् । किं कुर्युरत्र लोकाः? वन्ध्याक्रोशेन को वा कस्य वा लाभः? ये ह्यत्र प्रतिकर्तुं क्षमास्त एव यदि मौनावलम्बिनो वा निष्क्रिया वा यद्वा तद्वा विधानकारिणो वा केवलं तॉत्र प्रजाः कस्य पुरतः पूत्कुर्युः?
अस्तु नाम ! नाऽनेन गगने घनघातेन किमपि प्रयोजनमस्माकं सेत्स्यति । वक्तव्यं त्वन्यदेवाऽत्र यदनेनाऽऽतङ्कवादेन सहैवाऽन्योऽपि कश्चिदातङ्कवादः सर्वत्र प्रवर्तते प्रसरति च । यश्चेतोऽपि भयावहो हानिकरश्च । न तत्र प्रत्यक्षं काऽपि व्यक्तिः परिदृश्यते । नाऽत्र कस्याऽपि प्राणघातो रक्तपातो वाऽपि जायते किन्तु यदपि यावदपि हानं तेन जायते तत्तु प्राणघाताद् रक्तपाताच्चाऽप्यधिकतमं व्यथाकरं भवति ।
एष आतङ्कवादः प्रवर्तते प्रसरति च विविधैः - दूरदर्शन-चलचित्र-विविधसामयिक-विज्ञापन -वृत्तपत्रादिभिर्माध्यमैः। एतेन हि सत्संस्कारौ-दार्य-विवेक-पारस्परिक-विश्वास-प्रेम-सहिष्णुतामर्यादादीनां घातो भवति । नित्यमेव श्रूयते पठ्यते च यदद्याऽसावात्मघातं कृतवान्, असौ पितॄन् हतवान्, असौ पुत्रं हतवान्, अनेनैतादृशी वञ्चना कृता, दुराचरणं कृतम् - इत्यादि । अद्य यत्र शिक्षणसंस्थायामपि निर्भयत्वं निःसंशयत्वं वा नाऽस्ति तत्राऽन्यस्थलानां तु का वार्ता ? किन्तु को नामाऽत्र लक्ष्यं प्रकुरुते? संस्कारधनस्याऽस्य हानेन कस्य वाऽन्तःकरणं दूयते? कस्य वाऽनेनाऽऽक्रोशः प्रज्वलति ? न कस्याऽपि । न कोऽप्येतादृशी स्थितिमापद्रूपेण पश्यति विचारयति वा।
अपराधस्त्वपराध एव । तदर्थं चाऽपराधिनो दण्डनीया एव । किन्तु केवलं दण्डेन नाऽपराधा न्यूना निर्मूला वा भवन्ति भविष्यन्ति च । अपराधवृत्त्या मूलमत्राऽन्वेषणीयम् । मूलान्वेषणं विनैवाऽपराधानामुन्मूलनप्रयासस्तु मूले घातं विनैव पुष्पपत्रादीनां घातेन वृक्षोच्छेदनप्रयास इव निष्फलोऽस्ति । शाखोच्छेदनं कृत्वा वृक्षस्य पतनं प्रतीक्ष्यतेऽस्माभिः । हास्यास्पदमेवाऽज्ञानमेतत् किल! अज्ञानान्धकारे किमपि सत्यं न परिदृश्यते।
अस्यैतादृशस्याऽऽतङ्कवादस्य निर्मूलनं प्रतिकरणं वा शक्यमेव, यदि वयं जागृताः स्याम ।
तमसो मा ज्योतिर्गमयेति प्रार्थनस्य सिद्धरनन्तरमेव मृत्योर्माममृतं गमयेति प्रार्थनं सिद्ध्यति । अन्धकाराद् वयं मुक्ताः स्याम-एतदेवाऽस्माकं जीवनसाफल्यम् । अतो भवत्वस्माकं प्रथमं प्रार्थनं - तमसो मा ज्योतिर्गमय इति। वसन्तपञ्चमी, २०६५
कीर्तित्रयी
धरमपुरम्
N06
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org