Book Title: Nandanvan Kalpataru 2009 00 SrNo 22 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ = वाचकानां प्रतिभावः मान्याः , 9999 सादरं प्रणतयः । 'नन्दनवनकल्पतरोः' एकविंशतितमयनमधिगम्य प्रसीदामि । अत्र सर्वा रचना रम्या हृद्याश्च । आचार्यश्रीविजय-उदयसूरिप्रणीतं श्रीविजयनेम्यभ्युदयमहाकाव्यमपूर्णमपि नितरां मार्मिकम् । अस्मिन् काव्ये प्रणेतुः पाण्डित्यं पदे पदे विराजतेतराम् । मधुपुरीवर्णनं कस्य चित्तं न चमत्करोति ? 'सौभाग्यलक्ष्मीमवलोक्य यस्याः, किं नाऽलका स्वां विजितामवैति । भोगावती सा तत एव नूनं पातालवासं वरमभ्युपैति ॥' (श्रीविजय. १/४४) प्रा. अभिराजराजेन्द्रमिश्रस्य ‘स आसीन् मम तातपादः' इति कथा सर्वथा हृदयं संस्पृशति, तस्य च संवेदनशीलतां सहानुभूतिं दीनानुकम्पां च सम्यगभिव्यनक्ति। किन्तु, मम मतौ, कथेयं काल्पनिकीव विद्यते । यस्य तातपादोऽभिभावको वा प्रयागविश्वविद्यालयस्य प्रतिष्ठितः प्राध्यापक आसीत् तदध्ययनकाले सः कथमनाथ इवाऽभूत् ? किमपि भवतु । कथेयं सर्वथा मार्मिकी प्रशंसनीयतरा च। संस्कृतभाषायाः साहित्यस्य च संरक्षणे संवर्धने च 'नन्दनवनकल्पतरोः' प्रयासाः सर्वथाऽभिनद्यसत्त्वाः सन्ति । अत्र श्रीमुनिधर्मकीर्तिविजयस्य पत्रं नितरां प्रेरणाप्रदमस्ति । जयतु संस्कृतं संस्कृतिश्च । डा. रूपनारायणपाण्डेयः प्रयागः म Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 106