Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
सानन्दाश्रुकणो दृशोः सपुलको गात्रेषु सप्रश्रय
स्तुत्युक्तिर्वदने कृताञ्जलिपुटो मूर्धन्यभूवं चिरम् ॥ २८ ॥ तदनु मयि प्रसादाभिमुखः प्रज्वलदग्निशिखाकलापकपिलजटामण्डलाटवीविलुठज्जाह्नवीचरबालहंसायमानचन्द्रलेखः कण्ठगतकालकूटद्युतियमुनोभयपार्श्वनिःसरन्निर्झरायमाणरुद्राक्षमालिकः परिहितशार्दूलचर्मसंदर्शनभीतमिव मृगमेकं संरक्षितुं करे बिभ्राणः करान्तरे च प्रणतजनदुरदृष्टशिलाभञ्जनं टकं च कंचन भगवान्काञ्चनगिरिधन्वा गिरिकन्यासमेतो मामेतदवोचत
ध्यानेन ते प्रसन्नोऽस्मि वृणीष्व वरमर्पये ।
इत्युक्तवन्तं तं देवमयाचे रसगन्धकान् ॥ २९ ॥ ततस्तेन दीयमानान्रसगन्धकानग्रहीपम् । पुनश्च प्रणम्य सप्रश्रयमयाचिषम् । देवदेव,
फलिन्यः फलहीना याः पुप्पिण्यो या अपुप्पिकाः । गुरुप्रसूतास्ता मुञ्चन्त्वंहसो न इति श्रुतिः ॥ ३० ॥ यस्मै ददासि तं रुग्भ्यः सर्वाभ्यः पारयामहे ।
इति सोमेनौषधयः संवदन्तीति च श्रुतिः ॥ ३१ ॥ अतः सर्वास्ताः सिद्धौषधयः सोमायत्ताः स च भगवतः शिरोभूषणमत्रैव संनिहितः । अतः ।
शोधयितुं रसगन्धानकर्तुं च रसौषधानि विविधानि । दिव्यौषधीश्च सर्वा दापय मौलिस्थितेन चन्द्रेण ॥ ३२ ॥ ततश्च भगवदाज्ञया तेन सोमेन सर्वास्ता मह्यं दत्ताः । (इति मन्त्रिहस्तेऽर्पयति ।)
मन्त्री--(सहर्ष गृहीत्वा दृष्ट्वा च ।) सप्तकञ्चकादिदोपनिराकरणेन शुद्धानेतानोषधीभिः सह शत्रुजयाय प्रयोक्ष्यामहे ।
देवी-कित्तिआ ते सत्तुजणा किंणामहेआ अ कम्सि समए पुरोपरोह किदवन्तो । (क)
(क) कियन्तस्ते शत्रुजनाः किनामधेयाश्च कस्मिन्समये पुरोपरोधं कृतवन्तः।
For Private and Personal Use Only

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368