Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] जीवानन्दनम् । मत्री-सोऽप्येतेषां ज्ञातव्य एव स्वामिना । तद्यथाहेमन्ते किल पैत्तिकामयशमो ग्रीष्मे कफोद्यद्रुजः शान्तिर्वातिकरोगशान्तिरुदयेद्वर्षात्यये केवलम् । एवं पड़तुषु स्वभावजतया व्याख्यायि तुभ्यं मया पित्तश्लेष्मनभस्वतां सह चयेनापि प्रकोपः शमः ॥ ३९ ॥ अपि च। ___ रजनीमुखार्धरात्रप्रत्यूषा नक्तमहह पूर्वाह्नः । मध्यागोऽप्यपराह्रो वर्षाद्याः षट् प्रकीर्तिता ऋतवः ॥ ४० ॥ एप्वपि पित्तश्लेष्मवातानां संचयप्रकोपशमाः प्राग्वदेव ज्ञातव्याः । राजा-अस्त्वेतत् । दौवारिक, आन्तःपुरिकं जनं प्रवेशय । विदूषकः-किं उक्कण्ठिदो भवं दोलाविहारस्स । (क) राजा-स्मारितं भवता । तथैव क्रियते । मन्त्रिविन्यस्तसमस्त कार्यभरस्य मम विहाराहते कोऽन्यो व्यापारः । __ मन्त्री-देव्या सह दोलामधिरोहतु महाराजः । दौवारिक, पामुखी चन्द्रमुखी च चेटीमानय । दौवारिकः--तथा । (इति निष्क्रम्य चेटीभ्यां सह प्रविशति ।) (राजा देवी च दोलाधिरोहणं नाटयतः ।) मन्त्री-(चेट्यो प्रति ।) गायन्त्यौ दोलयतं भवत्यौ । प्रथमा--- जअइ महुतुन्दिरगुणो सुरहिसरो महुरकम्मुओ वीरो । जस्स खु वि जअपताआ सामारुणवामदक्खिणावअवा ।। ४ १ ॥(ख) विदपकः----(सकोपम् ।) आः दासीए पुत्ति, वालिसा क्खु तुमं । जह अत्थबोधो ण होदि तह पढिदम् । (ग) (क) किमुत्कण्ठितो भवान्दोलाविहाराय । (ख) जयति मधुतुन्दिलगुप्तः सुरभिशरो मधुरकार्मुको वीरः । यस्य खल्वपि जयपताका श्यामारुणवामदक्षिणावयवा ॥ (ग) आः दास्याः पुत्रि, बालिशा खलु त्वम् । यथार्थबोधो न भवति तथा पठितम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368