Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
मारुतं यः पिबन्नेव महर्षिस्तपसि स्थितः ।
तमहं कुम्भजन्मानं तोयराशिमपाययम् ॥ ३८ ॥ मन्त्री-अतिबुभुक्षया राज्ञः किमप्याशङ्कते मे हृदयम् । यथाहुर्नीतिज्ञाः-- 'अतिबुभुक्षा राज्ञो राज्यच्युतिसृचिका' इति । (राजानं निरूप्य ।)
शुष्यन्त्या धृतशोषणे रसनया शश्वल्लिहन्सृक्किणी
किंचिन्मग्नविलोचनः श्रमजलक्लिद्यत्कपोलालिकः । आरूढभ्रुकुटीभयंकरमुखो निःश्वासदनाधरो
दृष्टया कूणितया विलोकयति मामायान्तमेवान्तिके ॥ ३९ ॥ (उपसृत्य ।) जयतु जयतु देवः । राजा-उपविश्यताम् । (इत्यासनं निर्दिशति ।) विदूषकः---वअस्स, मए गहिदत्थो किदो अमच्चो । (क) राजा-अमात्य, सज्जीक्रियतामनेनोक्तं सर्वमपि । मन्त्री
किमियमपूर्वा बुद्धिर्देवस्य विजृम्भते ससंरम्भम् ।
ननु कुर्वे यदिदानीमनेन दुर्मेधसा कथितम् ॥ ४० ॥ विदूषकः-दाणिं वअस्स, तुमं जेव्व मह सरणं, जं कुविदो अमच्चो।(ख) राजा-अलं चापलेन । मन्त्री-तिष्ठ तूष्णीम् । जानामि ते दौष्टयम् ।
(विदयको लाज्जतस्तिष्ठति ।) मन्त्री-(स्वगतं विचित्य ।) स्यादेतत्कि नात्र पश्यामि हेतुं राज्ञो न क्षुद्राज्यविभ्रंशचिह्नम् । अस्य श्रेयः सिद्धये बद्ध कक्षः किं नाहं स्यां किं न मे स्वामिभक्तिः॥४१॥ परं त्वेवं निश्चिनोमि द्विपद्राजमन्त्रिणा पाण्डुना कृतमिदं वैकृतमिति ।
(क) वयस्य, मया गृहीतार्थः कृतोऽमात्यः ।। (ख) इदानी वयस्य, त्वमेव मम शरणम् । यत्कुपितोऽमात्यः ।
For Private and Personal Use Only

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368