Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः]
जीवानन्दनम् ।
'असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥' इति । एतादृशस्य योगस्य सिद्धिर्नाम ध्येयवस्तुप्साक्षात्काररूपावस्थितिः। मत्री-भगवन् ,
एवंभूताः क इव घटते चित्तवृत्तीनिरोद्धं
वैराग्येणाभ्यसनविधिना स्याच्चिरात्तन्निरोधः । जेयः शीघ्रं रिपुरपरथा न स्थितिर्नः पुरेऽतो
योगे सिद्धिर्भवति च यथानुग्रहस्ते तथास्तु ॥ २३ ॥ जीव:-भगवन्,
स्मृतिस्ते सकलाभीष्टं दत्ते किमुत दर्शनम् ।
तत्प्राप्तममितैः पुण्यैः सद्यः सिद्धि ददातु मे ॥ २४ ॥ देवी-(सदयम् ।) देव, संकप्पादो जेव्व से जोअसिद्धी होदु त्ति अणुगेलीअदु एसो । (क)
भगवान्---वत्स, देव्यैवमनुगृहीतोऽसि । संकल्पादेव ते योगसिद्धिर्भवतु।
मत्री-राजन्, भगवत्या भगवता च संकल्पादेवाखिलयोगसिद्धिरनुगृहीता । तत्सर्वथा कृतार्थाः स्मः । राजा-(सप्रणामम् ।) अनुगृहीतैवेयम् । यतः । या प्रत्यक्षपदार्थमात्रविषया सा योगसंस्कारतः
संस्कारान्प्रतिबनतीतर कृतान्धीः कापि मे जृम्भते । सूक्ष्मं यत्तु विदूरमव्यवहितं सर्वान्विशेषान्स्फुटं
पश्याम्येष यथावदद्य परमार्थोद्भूतया प्रज्ञया ॥ २५ ॥ आश्चर्योऽयं भगवत्प्रसादमहिमा ।
भगवान्-देवि, एवं संप्रज्ञातसमाधिरेतस्य प्रादुर्भूतः, य एवमालम्बनामनुभवति ऋतंभरा नाम प्रज्ञाम् । अतः परं निर्बीजयोगसंज्ञमसंप्रतिसमाधिमस्यानुगृह्णामि । (क) देव, संकल्पादेवास्य योगसिद्धिर्भवत्वित्यनुगृह्यतामेषः ।
For Private and Personal Use Only

Page Navigation
1 ... 362 363 364 365 366 367 368