Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra १०८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | " राजा - देवदेव भगवन् सर्वमपि प्रियमाचरितमेव । सर्वेऽपि मे प्रशमिता रिपवः पुरेऽभूदारोग्यमैक्षिपि भवन्तमुमासहायम् । योगं ततस्त्वदुपदिष्टमवाप्य जीव तथापीदमस्तु भरतवाक्यम् । न्मुक्तोऽस्मि ते करुणया किमतः प्रियं मे ॥ ३४ ॥ पर्जन्यः समयेऽभिवर्षतु फलं वाञ्छानुरूपं महीं प्रौढामात्यनिरूपिते पथि महीपालाः पदं तन्वताम् । कर्णालंकृतये भवन्तु विदुषां कान्ताः कवीनां गिरो भूयादस्य कवेश्वरायुररुजो भक्तिश्च शैवी दृढा ॥ ३९ ॥ (इति निष्क्रान्ताः सर्वे 1) कृतिरियं श्रीमद्भारद्वाजकुलजलधिकौस्तुभस्य श्रीनरसिंहरायमन्त्रिवरनन्दनस्य श्रीमदानन्दरायमखिनः । समाप्तोऽयं ग्रन्थः । १. अयं जीवानन्दनप्रणेता श्रीमदानन्दरायमखी नृसिंहरायाध्वरिसूनुख्यम्बकदीक्षितस्य भ्रातृव्यस्त औरनगरमहीपतेरेकक्षितिपालवंशतिलकस्य शरभापरपर्यायस्य श्री शाहराजस्य मत्रिप्रवर आसीदित्यादि सर्व जीवानन्दनस्यैतत्प्रणीतस्यैव विद्यापरिणयनाटकस्य च प्रस्तावनातः प्रतीयते स च शरभमहीपतिः ख्रिस्ताब्दीय सप्तदशशतक पूर्वार्ध आसीदिति स एवास्य समयः एतत्कृतिषु जीवानन्दनं विद्यापरिणयं चेति नाटकद्वयमस्माभिरुपलब्धम्. जीवानन्दने यद्यपि नास्ति कवित्वचमत्कारस्तथापि संविधानकमनुच्छिष्टं चिकित्साशा - ' स्त्रानुकूलमिति कृत्वैवास्य काव्यमालायां प्रवेशः तत्र जयपुरराजगुरुकुलप्रसूतभट्ट श्री-कृष्णकुमाराणां संग्रहादेकमेवास्य शुद्धं पुस्तकमुपलब्धम् चिरं विहितेऽप्यन्वेषणे पुस्त स्तकान्तरालाभात्तस्मादेव पुस्तकादेतन्मुद्रणमकारीति भद्रम्. म् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368