Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 366
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । १०७ (नेपथ्ये ।) जीवे शिवप्रापितयोगसिद्धौ कालो जनान्ध्येन समं तमोवत् । पापो विषूच्या सह राजयक्ष्मा गदैरसाध्यैः सह नाशमेति ॥ २९ ॥ ईशानस्य निदेशात्प्राप्ता साप्यत्र शांकरी भक्तिः । ___ चत्वारोऽपि पुमर्थाः पुंभिर्यस्याः प्रसादतो लभ्याः ॥ ३० ॥ मन्त्री--(आकर्ण्य ।) प्रियं नः प्रियम् । भगवान्काल एष एवं नः प्रिथमाचष्टे । राजा--(सहर्षोल्लासम् ।) मूर्धन्यमण्डलनिकेतसुधांशुबिम्ब निःप्यन्दिशीतलसुधातिनिवृताङ्गः । मेघावृतिव्यपगमे गगनं यथाच्छं चैतन्यमावरणवर्जितमस्मि तद्वत् ॥ ३१ ॥ मत्री---एवमेवायं जीवो राजा भगवतोः प्रसादान्नीरोगो नित्यमुक्तो निरावाधो बहुकालं जीयादिति प्रार्थये । भगवान्-तथैवास्तु । देवी-तह होदु । (क) राजा--(सहर्षविस्मयं मन्त्रिणं प्रति ।) मन्त्रिञ्जन्मैव दोपः प्रथममथ तदप्याधिभिर्व्याधिभिश्चे ज्जुष्टं कष्टं बतातः किमधिकमपि तु त्वन्मतेर्वेभवेन । देव्या भक्त्याः प्रसादात्परमशिवमहं वीक्ष्य कृच्छ्राणि तीर्णः ___ सर्वाणि द्राक्तदत्यद्भुतमिह शुभदं संविधानं तवेदम् ॥ ३२ ॥ मन्त्री-राजन्, बहुजन्मार्जितैः पुण्यैस्तावकैरेप तोपितः । सर्वाभीष्टं ददातीशः संविधानं किमत्र मे ॥ ३३ ॥ - भगवान-वत्स, किमतः परमन्यत्तव प्रियं कुर्मः । . (क) तथा भवतु । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 364 365 366 367 368