Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 365
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । देवी-अणुगेहीअदु अप्पणिव्विसेसो एसो । (क) जीवः-(सहर्षोल्लासरोमाञ्चम् ।) आश्चर्यमाश्चर्यम् । भगवन्करुणासमित्समिद्धे दृढनि/जसमाधियोगवह्नौ । प्रविलापितसर्वचित्तवृत्तिः परमानन्दघनोऽस्मि नित्यतृप्तः ॥ २६ ॥ भगवान्-देवि, झटिति विघटिताखिलपराग्वृत्तिः प्रत्यगात्मैक्यान भवरूपोऽसंप्रज्ञातसमाधिराविभूतो वत्सस्य । यत एवमनुभूतमर्थमनुवदति । देवी-देव, किदत्यो खु एसो जो एवंविधस्स देवाणुग्गहम्स म, अणं जादो। (ख) भगवान्—संप्रत्येनं व्युत्थाप्य प्रकृतकार्यप्रवणं करोमि । (जीवं प्रति ।। वत्स, अन्यदपि किंचिदनुशासनीयोऽसि । जीवः-(व्युत्थाय ।) भगवन् , अवहितोऽस्मि । भगवान् प्राचीनः सचिवः प्रियस्तव सुहृयो ज्ञानशा मुनिः ___ सोऽन्यस्यापि सुदुर्लभः स भवता मान्यः सदाहं यथा । श्रेयःसंघटनाय हन्त भवतः सत्यं स एवार्हति प्रेयस्त्वैहिकमातनोतु सततं विज्ञानशर्मापि ते ॥ २७ ॥ शश्वज्ञानादभिन्नः सन्विज्ञानमपि मानय । एवं सति घटेयातां भुक्तिमुक्ती करे तव ॥ २८ ॥ राजमत्रिणी--(साष्टाङ्गं प्रणम्योत्थाय ।) अनुगृहीतौ स्वः । देवी-सुमरणमेत्तसंणिहिदं गाणसम्माणं सचिवं विण्णाणेण मुत्तविरोहं करिअ दुवे वि मन्तिणो रण्णो हत्थे समप्पअन्तेण भअवदा बहुलीकिदं भत्तवत्सलत्तणम् । (ग) (क) अनुगृह्यतामात्मनिविशेष एषः । (ख) देव, कृतार्थः खल्वेष य एवंविधस्य देवानुग्रहस्य भाजनं जातः । (ग) स्मरणमात्रसंनिहितं ज्ञानशाणं सचिवं विज्ञानेन समं मुक्तविरे कृत्वा द्वावपि मन्त्रिणी राज्ञो हस्ते समपर्यता भगवता बहुलीकृतं भक्तवत्सलत्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 363 364 365 366 367 368