Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 357
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९८ तद्वयमपि तदिङ्गितानुमितं पर्यालोच्य तत्प्रतिविधानाय व्याप्रियमाणा इष्टं साधयामः । जीवराज : - (सहर्षम् 1) Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । ( इति निष्क्रान्ताः सर्वे 1) सप्तमोऽङ्कः । (ततः प्रविशति जीवराजो विज्ञानमन्त्री च ) मन्त्रिस्त्वदीयमतिकौशलनौबलेन तीर्णो रणाम्बुधिरभूदतिदुस्तरोऽपि । यस्मिन्भयंकरगतिर्ज्वरपाण्डुमुख्यो रोगत्रजः किल तिमिंगिलतामयासीत् ॥ १ ॥ किं ब्रवीमि संकुलयुद्धेऽस्मदीयानां तदीयेषु प्रवृत्तमोजायितम् । एकत्र मण्डभेदो गुटिकाभेदः परत्र मन्दाग्निम् । निखिलामयजननकरं निजपानं प्रथममिदमहमदर्शम् ॥ २ ॥ अथ गुलूच्यादिपञ्चभद्रकषायं निकषा यन्नवं (?) तमवलोक्य पलायन्त पित्तसमीरज्वराः । तदनन्तरं जगदन्तरप्रसिद्धः स्वयमनश्वरसारो यक्ष्मपरिक्षपणदक्षिणः सन्नपि संननाह स्वयं त्रैलोक्यचिन्तामणिर्विनिपाताय संनिपातेन साकमष्टविधानामपि ज्वराणाम् । स्थावरजङ्गमगरलं ज्वरमामोत्थं व्रणोपजातं च । आरोग्य पूर्वचिन्तामणिरपि निघ्नन्मया रणे दृष्टः || ३॥ ततः सर्वज्वरानपि निगृहीतवन्तं ज्वराङ्कुशमुत्तरेण गुल्मार्शः संग्रहिणीविपाटितवतो ग्रहिणी कपाटस्य पूर्वभागे या पञ्चामृतपर्पटी ग्रहिणिकायक्ष्मातिसारज्वरस्त्रीरुपाण्डुगदाम्लपित्तगदरुक्क्षुन्मान्द्यविध्वंसिनी । तामद्राक्षमहं रणे स्त्रियमपि व्यातन्वतीं पौरुषं चामुण्डामिव चण्डमुण्डसमरप्रक्रान्तदोविक्रमाम् ॥ ४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368