Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] जीवानन्दनम् । .
१०१ __ मत्री-अनितरसाधारणमेतस्य भक्ताभीप्सितप्रदानचातुर्यम् । यः प्रसादितवते पार्थाय पाशुपतमस्त्रं प्रतिपादितवान् । येन च निखिलक्षत्रियकुलजिघृक्षवे भार्गवाय प्रसादीकृतः परशुः ।
राजा-उपपन्नमिदम् । एवमपरिमितानि महान्त्याश्चर्यचरितानि देवस्य । यच्च कपिलभस्मीकृतप्रपितामहसंघसमुत्तारणकृतप्रयत्नभगीरथप्रसादितायाः सुरापगाया भुवमुत्तरन्त्या गर्वभञ्जनं नाम मृत्युंजयस्य चरितं तदपि परमाद्भुतमेव । मत्री-जगत्प्रसिद्धर्मवेदम् । तथाहि । वेगाकृष्टोडुचक्रानुकरणनिपुणश्वेतडिण्डीरखण्ड
श्लिष्टोर्मीनिर्मितो:वलयविलयनाशङ्कसातङ्कदेवा । विभ्रम्याकाशगङ्गा विधिभुवनभुवः सर्वदुर्वारगर्वा
निर्विण्णा धूर्जटीयोद्भटघटितजटाजूटग निलिल्ये ॥ ११ ॥ किं च । अध्वरविधावपराधिनो दक्षप्रजापतेः शिक्षणावसरे रोषसंधुक्षितेन नीललोहितेन विसृष्टः स्वांशभूतः प्रभूतकोपविधूतविनयमुद्रो वीरभद्र एव किं न कृतवान् । तथाहि ।
शूलाग्रक्षतदक्षकण्ठरुधिरैः शोणे रणप्राङ्गण ___ कीर्णो दन्तगणश्चपेटदलितादर्कस्य वक्रान्तरात् । वीरश्रीकरपीडनोत्सवविधावेतस्य वैश्वानर
प्रक्षिप्तोज्ज्वललाजविभ्रमकरो नालोकि लोकेन किम् ॥ १२ ॥ राजा-किमिति वर्ण्यतामयमाश्चर्यचर्यो भगवान् ।
क्रोधारूढभ्रुकुटिरलिके क्रूरखड्गप्रहार
श्छिन्नश्रीवत्रिदशनिकरच्छन्नसङ्ग्रामभूमिः । शकश्रीशद्रुहिणशरणालाभविद्राणविद्या
दानोन्निद्रः प्रणतजनताभद्रदो वीरभद्रः ॥ १३ ॥ कः पुनरस्य स्वरूपं तत्त्वतः शनोत्यवधारयितुं यदन्तर्वाणयः सर्वेऽपि स्वच्छन्दानुरोधात्कलयन्ति स्वरूपमेतस्य । तथाहि---
For Private and Personal Use Only

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368