Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 359
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। प्रति प्रागुक्तम् । तदिदानी तामेव भगवती भक्ति हृदि दृढमवलम्ब्य भगवदर्शनार्थ संनिधानानुग्रहः प्रार्थ्यताम् । तत एवासाध्यरोगाभिभवः सुलभः प्रतिभाति । राजा-यद्येवमनुध्याय विध्यादिविबुधकृतनिषेवणं करोमि मनसा शरणं शंकरम् । (इत्यनुध्यायति ।) __ मत्री-आश्चर्यमाश्चर्यम् । भक्तवत्सला भगवतश्चन्द्रचूडस्य परां कोटिमवलम्बते । यदनुध्यानमात्रमनुतिष्ठति स्वामिनि तदाविर्भावसूचनमेतदालक्ष्यते । यत्किल शैलस्थूलशिरोभिरुग्रभुजगप्रायश्रवोभूषणे___ र्जानुस्पर्शिबृहत्पिचण्डचटुलेस्तालद्रुदीर्घाञ्जिभिः । प्रावृण्शतमिस्रनीलतनुभिभस्मत्रिपुण्डाङ्कितैः शूलोद्भासिभुजैः समावृतमिदं भूतैरभूद्भुतलम् ॥ ७ ॥ राजा--(ध्यानाद्विरम्य कर्ण दत्त्वा ।) अहो भाग्यप्रकर्षो जीवलोकस्य । यतः । 'जय विश्वपते जयेन्दुमौले जय शंभो जय शंकरेति शंसन् । परितः श्रुतिगोचरो जनानां कलुपं लुम्पति काहलीनिनादः ॥ ८॥ मत्री-(सहर्षम् ।) राजन्, फलितस्ते मनोरथः । पश्य । आरूढः स्फाटिकक्ष्माधरनिभवृषभं सार्धमद्रीन्द्रपुत्र्या वीतावष्टम्भकुम्भोदरकरयुगलोदस्तमुक्तातपत्रः । गायद्गन्धर्वनृत्यत्सुरगणिकपुरोभागोपन्मृदङ्गो गङ्गाभृत्युत्तमाङ्गे शशिशकलधरः शंकरः संनिधत्तं ॥ ९॥ अपि च । मौलिन्यस्ताञ्जलीनां दरमुकुलितयिदानन्दवाप्प. क्लिद्यद्गण्डस्थलानामविरलपुलकालंकृतस्वाकृतीनाम् । वेदान्तप्रायभूरिस्तुतिमुखरमुखाम्भोजभाजामृपीणां पतया पाश्चात्यभागो झटिति निविडितो दृश्यतामस्य शंभोः ॥१०॥ राजा-मन्निन् , इतः परं प्रणिपातादिना भगवन्तं प्रसाद्य स्वाभीष्टमर्थ प्रार्थयिष्ये । . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368