Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विदूषकः-एसो सोएण पलवन्तो विअ दीसइ । (क) मन्त्री-शृणुमस्तहि प्रलापमेतस्य । विषूचीमत्सरावप्येनमनुवर्तेते ।
(ततः प्रविशति विषचीमत्मराभ्यां सहितो यक्ष्मा ।) यक्ष्मा-हन्त कथं तादृशानामपि मत्सैन्यानामीदृशीयं दुरवस्था । आश्चर्यमाश्चर्यम् । जीवस्य ध्वजिनीचरानतिबलाशक्नोति कः शासितुं
दुवीरेयुधि पातितानि मम यैः सर्वाणि सैन्यानि च । पाण्डुर्मे सचिवः पररवधि वा भीतः पलायिष्ट वा
नो जाने मम जीवतो बत हताः पुत्रास्तथा बान्धवाः ॥ ९१ ।। (सशोकावेगम् ।)
भो भोः मुताः क्व नु गताः म्थ विना भवद्भि
जीर्णाटवीव जगती परिदृश्यते मे । आक्रम्यते च तमसा हरिदन्तरालं
शोकाग्निसंवलितमुत्तपते वपुश्च ।। ९२ ॥ (इति मर्छति ।)
मत्सरः--समाश्वसिहि समाश्वसिहि । यक्ष्मा-(समाश्वस्य।) वत्सा हे वदनाम्बुजानि मुदितो द्रक्ष्यामि केपामहं
केषां माक्षिकमाक्षिपन्ति वचनान्याकर्णयिष्ये मुदा । मानां तनुषु प्रविष्टमचिरान्मां वर्धयिष्यन्ति के
यूयं यत्समरे परैरतिबलैर्नामावशेषीकृताः ॥ ९३ ।।
पुत्रप्रविलयाहुःखं न सोढुं शक्यते जनैः ।
वसिष्ठोऽपि महान्येन ववाञ्छ पतनं भृगोः ।। ९४ ॥ तदिमं पुत्रशोकसंतप्तं यक्ष्माणमवेक्षितुं न शक्नोमि ।
(क) एष शोकेन प्रलपन्निव दृश्यते ।
For Private and Personal Use Only

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368