SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विदूषकः-एसो सोएण पलवन्तो विअ दीसइ । (क) मन्त्री-शृणुमस्तहि प्रलापमेतस्य । विषूचीमत्सरावप्येनमनुवर्तेते । (ततः प्रविशति विषचीमत्मराभ्यां सहितो यक्ष्मा ।) यक्ष्मा-हन्त कथं तादृशानामपि मत्सैन्यानामीदृशीयं दुरवस्था । आश्चर्यमाश्चर्यम् । जीवस्य ध्वजिनीचरानतिबलाशक्नोति कः शासितुं दुवीरेयुधि पातितानि मम यैः सर्वाणि सैन्यानि च । पाण्डुर्मे सचिवः पररवधि वा भीतः पलायिष्ट वा नो जाने मम जीवतो बत हताः पुत्रास्तथा बान्धवाः ॥ ९१ ।। (सशोकावेगम् ।) भो भोः मुताः क्व नु गताः म्थ विना भवद्भि जीर्णाटवीव जगती परिदृश्यते मे । आक्रम्यते च तमसा हरिदन्तरालं शोकाग्निसंवलितमुत्तपते वपुश्च ।। ९२ ॥ (इति मर्छति ।) मत्सरः--समाश्वसिहि समाश्वसिहि । यक्ष्मा-(समाश्वस्य।) वत्सा हे वदनाम्बुजानि मुदितो द्रक्ष्यामि केपामहं केषां माक्षिकमाक्षिपन्ति वचनान्याकर्णयिष्ये मुदा । मानां तनुषु प्रविष्टमचिरान्मां वर्धयिष्यन्ति के यूयं यत्समरे परैरतिबलैर्नामावशेषीकृताः ॥ ९३ ।। पुत्रप्रविलयाहुःखं न सोढुं शक्यते जनैः । वसिष्ठोऽपि महान्येन ववाञ्छ पतनं भृगोः ।। ९४ ॥ तदिमं पुत्रशोकसंतप्तं यक्ष्माणमवेक्षितुं न शक्नोमि । (क) एष शोकेन प्रलपन्निव दृश्यते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy