Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवानन्दनम् । .
विदषकः-देव, अचेतणा वि एदे चिन्तामणिपहुदिणो संपदं संप. हारं कुणन्ति त्ति अच्चरिअम् । ता इन्दजालं विअ एदं मे पडिभादि । (क)
राजा—धिमख, अनभिज्ञोऽसि शास्त्रतत्त्वस्य । अचिन्त्यो हि मणि. मन्त्रौषधीनां प्रभावः । अभिमानिदेवताश्चैषां सचेतनाः श्रूयन्ते । (कर्ण दत्त्वा ।) मन्त्रिन् , कोऽयं कलकलाविर्भावः । मत्री-पश्यतु देवः ।
शस्त्राशस्त्रि गदागदि प्रथमतो निर्वर्तिते संयुगे ___ मुष्टीमुष्टि तलातलि प्रववृते पश्चादिदं भीषणम् । जित्वारीनिह देव तावकभेटेगपूर्यते काहला
शङ्खः संप्रति शब्द्यते दृढतरं संताड्यते दुन्दुभिः ॥ ८८ ॥ अपि च ।
आम्फालयन्ति दृढमूरुयुगं कराग्रैः
कुर्वन्ति कुण्ठितघनारवमन्दहासम् । जीवोऽयमम्मदधिपो जितवानमित्रा
नित्युद्धतं युधि भटास्तव पर्यटन्ति ॥ ८९ ॥ विदूषकः-कहं एत्थ एव भग्गमणोरहदाए. परुण्णो विअ जक्ख. गओ लक्खीअदि । (ग्व) राजा-वयस्य, सम्यडिरूपितं भवता ।
गण्डस्थलप्रसमराथ करं करेण
निप्पीडयन्कटकटाकृतदन्तपतिः । यक्ष्मा ललाटघटितभृकुटिः किलाय
मन्तःस्पृशं रुषमभीक्ष्णमभिव्यनक्ति ॥ ९० ॥ मत्री-न केवलां रुषं शुचं च । (क) देव, अचेतना अप्येते चिन्तामणिप्रभृतयः सांप्रतं संप्रहारं कुर्वन्तीत्याश्रर्यम् । तदिन्द्रजालमिवैतन्मे प्रतिभाति ।
(ब) कथमत्रैव भग्नमनोरथतया प्ररुदित इव यक्ष्मराजो लक्ष्यते ।
For Private and Personal Use Only

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368