Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जावानन्दनम् । .
९३ णम् । संपदं एसो अत्ताणं वि ण जाणादि राजकजं कुदो उण उम्मादं वा उवजावं वा सत्तुकिदम् । (क) । __ मत्री-(विहस्य ।) वैधेय, किं वृथा प्रलपसि । देव, अलं धैर्यत्यागेन । एते च मत्संनिहिता रसौषधिविशेषा भवत्सेवनमेव प्रतीक्षमाणा विपक्षक्षपणाय सज्जीभवन्ति तानेताननुगृहाण । (नेपथ्ये ।) देव, एते वयम्
शिवभक्तिप्रसादेन लब्धा मन्त्रिवरेण च ।
सम्यक्संविहिताः सर्व विपक्षाविजयामहे ॥ ७५ ॥ पुरस्तादचिरादेवास्माभिवाध्यमानं. यक्ष्माणं सामात्यं सपुत्रकलत्रं ससैन्यं च पश्य।
राजा--(दृष्ट्वा ।) प्रियं प्रियम् । सर्वे यूयमप्रमत्ता विपक्षक्षपणाय यतध्वम् ।
(ततः प्रविशति यक्ष्मा पाण्डुश्च ।) यक्ष्मा-पाण्डो, क पुनरस्मदीया भटाः प्रहारार्थ वर्तन्ते । पाण्डुः-देव, पश्य । केचिदनुगच्छन्ति, केचित्पुरो गच्छन्ति । काल:-कर्मन् , यदुक्तं पाण्डुना तत्तथैव । यतः,
अनेकरोगानुगतो बहुरोगपुरोगमः ।
राजयक्ष्मा क्षयः शोषो रोगराडिति यः स्मृतः ।। ७६ ॥ कर्म-----जानामि यादृश एप इति ।
नक्षत्राणां द्विजानां च राजाभूद्यो विधुः पुरा । तं प्रजग्राह यक्ष्मासौ राजयक्ष्मा ततः स्मृतः ॥ ७७ ।। देहेषु यः क्षयकृतेः क्षयस्तत्संभवाच्च सः ।
रसादिशोषणाच्छोषो रोगराड्रोगरञ्जनात् ॥ ७८ ।। यक्ष्मा-सखे पाण्डो, प्रबलेषु सामदानभेदा न प्रसरन्ति, अतोऽन्तिम एव प्रयोगः संप्रतिपत्तव्यः । तदत्र किं विलम्बन ।।
(क) वयस्य, श्रुतं किमिदानीमप्येतस्य मन्त्रिण इदमेव वचनम् । सांप्रतमेप आत्मानमपि न जानाति राजकार्य कुतः पुनरुन्मादं वा उपजापं वा शत्रुकृतम् ।
For Private and Personal Use Only

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368