Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः
जीवानन्दनम् । चत्वारोऽक्ष्णोवसन्तो नवतिरपि चतुःसप्ततिर्वक्रनिष्ठा
मूर्धस्थाः पतिसंख्याः क्रिमिगदनिवहोऽप्यस्ति नैके च शोफाः ॥६५॥ तथा भूतोन्मादा विंशतिः ।
आमवात इति कोऽपि चतुर्धा जायते निखिलरोगनिवासः । वातपित्तकफशोणितमद्यक्ष्वेडजा पडुदयन्ति च मूर्छाः ॥ ६६ ॥ अपि च ।
एते पोढा भिन्ना उन्मादाश्च प्रवर्तन्ते ।
अभिवर्तन्ते चामी हृद्रोगाः पञ्चधा भिन्नाः ॥ ६७ ॥ विदूषकः-पमादो पमादो । एदेहिं अरिहिं दुवाराइं पाआरा परिग्वा कोसाआराई अ सव्वं वि अक्कत्तम् । किं बहुजम्पिदेण । हृदयं गुम्मं करिअ अधिट्ठिदं । तिलप्पमाणो वि देसो अणकन्तो ण दीसइ । (अञ्जलिं बवा ।) वअस्स, अदो वरं णत्थि मे जीविदासा । मम बह्मणीए विहुराए अन्धकूवणेत्ताए तुम एव्व सुमरिअ जोअक्खेमं वहेहि । पढमं एव्व एसो अणत्यो सुणाविदो सि मए । तुम उण दुम्मन्तिणो से वअणवीसम्भेण इमं दुरवत्थं पावदो सि । पेक्ख दाव तस्स फलं एवं संवुत्तं । (क) राजा-अमात्य, संवदत्येव विदृषकवचनम् । त्वद्बुद्धिप्रसरोऽत्र धिग्विफलितो निक्षिप्य सर्वामपि
त्वय्येवात्मधुरां मया निवसता संप्राप्तमीहक्फलम् । वैयग्र्यं हृदि सर्वथास्मि गमितो द्वाराणि कोषालयाः
प्राकाराः परिखाश्च हा निखिलमप्याक्रान्तमेवारिभिः ॥ ६८ ॥ (क) प्रमादः प्रमादः । एतैररिभिशाण प्राकाराः परिखाः कोषागाराणि च सर्वमप्याक्रान्तम् । किं बहुजल्पितेन । हृदयं गुल्मं कृत्वा अधिष्टितम् । तिलप्रमाणोऽपि देशोऽनाक्रान्तो न दृश्यते । वयस्य, अतःपरं नास्ति मे जाविताशा । मम ब्राह्मण्या विधुराया अन्धकूपनेत्रायास्त्वमेव स्मृत्वा योगक्षेमं वह । प्रथममेव एपोऽनर्थः श्रावितोऽस्ति मया । त्वं पुन?मन्त्रिणोऽस्य वचनविशम्भेणेमां दुरवस्था प्रापितोऽसि । पश्य तावत्तस्य फलमिदं संवृत्तम् ।
For Private and Personal Use Only

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368