Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
शस्त्राशस्त्रि प्रसह्याथ प्रवृत्ते रणवैशसे ।
अजीवकमरोग वा पुरमेतद्भविष्यति ॥ ७९ ॥ तदेहि । तत्क्षमां भूमिमेव गच्छामः । (इति पाण्डुना सह निष्क्रान्तः ।)
काल:-कर्मन् , पश्य पश्य विपक्षविजयाय विज्ञानमन्त्रिप्रयुक्तान्भटान् ।
राजा-वयस्य, मन्त्रिणा दर्शितेन विक्रमव्यापारेण हृदयं मम निवृणोति । यतः ।
भूपतिरससिन्दूरज्वराङ्कुशानन्दभैरवैः साकम् ।
चिन्तामणिश्च शत्रुराजमृगाङ्कश्च जेतुमुद्युते ॥ ८ ॥ पश्य चात्रारोग्यचिन्तामणरुत्तरण !
कृतसिद्धरसेश्वरः पुरस्तात्करमालम्ब्य च वातराक्षसस्य । समराङ्गणमेति पूर्णचन्द्रोदय एपोऽग्निकुमारदर्शिताध्वा ॥ ८१ ॥
प्रतापलकेश्वर एष यश्च प्रतापयत्यत्र निजप्रतापात् । गदान्धनुर्वातमुखानशेषांल्लङ्केश्वरः शत्रुभिरप्रसह्यः ॥ ८२ ॥ वसन्तकुसुमाकरः सरभसं विधत्ते रणं
सुवर्णरसभूपतिर्वशयते रुजां मण्डलम् । प्रसह्य वडवानलाभिधमिदं च चूर्ण जवा
द्विशोषयति सर्वतः प्रबलमग्निमान्द्यारुचिम् ॥ ८३ ॥ सुदर्शन चक्रमिवामरारीन्सुदर्शनं चूर्णमिदं रणाग्रे । निहन्ति जीर्णज्वरमाशु पित्तजन्या रुजश्चूर्णयति प्रसह्य ।। ८४ ॥ प्रबलानलसंकुलितं गदगहनं दुरवगाढमन्येन । हन्ति धुरि तीक्ष्णसारो वातकुठारः समूलमुन्मूल्य ।। ८५ ॥
असकृत्स्खलतः किंचिद्गतिमान्यविधायिनः । प्रमेहान्माद्यतो हन्ति मेहकुञ्जरकेसरी ॥ ८६ ॥ गतिमन्थरताधायिवर्मवैपुल्यशालिनः । सर्वान्वातगजान्हन्ति वातविध्वंसनो हरिः ।। ८७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368