SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। शस्त्राशस्त्रि प्रसह्याथ प्रवृत्ते रणवैशसे । अजीवकमरोग वा पुरमेतद्भविष्यति ॥ ७९ ॥ तदेहि । तत्क्षमां भूमिमेव गच्छामः । (इति पाण्डुना सह निष्क्रान्तः ।) काल:-कर्मन् , पश्य पश्य विपक्षविजयाय विज्ञानमन्त्रिप्रयुक्तान्भटान् । राजा-वयस्य, मन्त्रिणा दर्शितेन विक्रमव्यापारेण हृदयं मम निवृणोति । यतः । भूपतिरससिन्दूरज्वराङ्कुशानन्दभैरवैः साकम् । चिन्तामणिश्च शत्रुराजमृगाङ्कश्च जेतुमुद्युते ॥ ८ ॥ पश्य चात्रारोग्यचिन्तामणरुत्तरण ! कृतसिद्धरसेश्वरः पुरस्तात्करमालम्ब्य च वातराक्षसस्य । समराङ्गणमेति पूर्णचन्द्रोदय एपोऽग्निकुमारदर्शिताध्वा ॥ ८१ ॥ प्रतापलकेश्वर एष यश्च प्रतापयत्यत्र निजप्रतापात् । गदान्धनुर्वातमुखानशेषांल्लङ्केश्वरः शत्रुभिरप्रसह्यः ॥ ८२ ॥ वसन्तकुसुमाकरः सरभसं विधत्ते रणं सुवर्णरसभूपतिर्वशयते रुजां मण्डलम् । प्रसह्य वडवानलाभिधमिदं च चूर्ण जवा द्विशोषयति सर्वतः प्रबलमग्निमान्द्यारुचिम् ॥ ८३ ॥ सुदर्शन चक्रमिवामरारीन्सुदर्शनं चूर्णमिदं रणाग्रे । निहन्ति जीर्णज्वरमाशु पित्तजन्या रुजश्चूर्णयति प्रसह्य ।। ८४ ॥ प्रबलानलसंकुलितं गदगहनं दुरवगाढमन्येन । हन्ति धुरि तीक्ष्णसारो वातकुठारः समूलमुन्मूल्य ।। ८५ ॥ असकृत्स्खलतः किंचिद्गतिमान्यविधायिनः । प्रमेहान्माद्यतो हन्ति मेहकुञ्जरकेसरी ॥ ८६ ॥ गतिमन्थरताधायिवर्मवैपुल्यशालिनः । सर्वान्वातगजान्हन्ति वातविध्वंसनो हरिः ।। ८७ ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy