SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मारुतं यः पिबन्नेव महर्षिस्तपसि स्थितः । तमहं कुम्भजन्मानं तोयराशिमपाययम् ॥ ३८ ॥ मन्त्री-अतिबुभुक्षया राज्ञः किमप्याशङ्कते मे हृदयम् । यथाहुर्नीतिज्ञाः-- 'अतिबुभुक्षा राज्ञो राज्यच्युतिसृचिका' इति । (राजानं निरूप्य ।) शुष्यन्त्या धृतशोषणे रसनया शश्वल्लिहन्सृक्किणी किंचिन्मग्नविलोचनः श्रमजलक्लिद्यत्कपोलालिकः । आरूढभ्रुकुटीभयंकरमुखो निःश्वासदनाधरो दृष्टया कूणितया विलोकयति मामायान्तमेवान्तिके ॥ ३९ ॥ (उपसृत्य ।) जयतु जयतु देवः । राजा-उपविश्यताम् । (इत्यासनं निर्दिशति ।) विदूषकः---वअस्स, मए गहिदत्थो किदो अमच्चो । (क) राजा-अमात्य, सज्जीक्रियतामनेनोक्तं सर्वमपि । मन्त्री किमियमपूर्वा बुद्धिर्देवस्य विजृम्भते ससंरम्भम् । ननु कुर्वे यदिदानीमनेन दुर्मेधसा कथितम् ॥ ४० ॥ विदूषकः-दाणिं वअस्स, तुमं जेव्व मह सरणं, जं कुविदो अमच्चो।(ख) राजा-अलं चापलेन । मन्त्री-तिष्ठ तूष्णीम् । जानामि ते दौष्टयम् । (विदयको लाज्जतस्तिष्ठति ।) मन्त्री-(स्वगतं विचित्य ।) स्यादेतत्कि नात्र पश्यामि हेतुं राज्ञो न क्षुद्राज्यविभ्रंशचिह्नम् । अस्य श्रेयः सिद्धये बद्ध कक्षः किं नाहं स्यां किं न मे स्वामिभक्तिः॥४१॥ परं त्वेवं निश्चिनोमि द्विपद्राजमन्त्रिणा पाण्डुना कृतमिदं वैकृतमिति । (क) वयस्य, मया गृहीतार्थः कृतोऽमात्यः ।। (ख) इदानी वयस्य, त्वमेव मम शरणम् । यत्कुपितोऽमात्यः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy