________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवानन्दनम् ।
भवतु । अस्य चित्तं बहुभक्षणायत्तमन्यत्र व्याक्षिपामि । स एवास्य प्रतीकारः । (प्रकाशम् ।) प्रासादस्योपरि चलतु देवः । तत्रैव संपाद्यते महती तृप्तिः । राजा-बाढम् ।
(सर्व प्रासादाधिरोहणं नाट्यन्ति ।) विदपकः----(सर्वतो विलोक्य ।) भो वअम्स, किं एवं भासिणीपाआरे अपुव्वं किं वि दीसइ । (क)
राजा-अमात्य, किमिदम् ।
कर्म----भगवन्काल, सन्ति खलु शरीरे भासिनीप्रभृतयः सप्तत्वचः नत्र त्वपप्रथमप्राकार सिध्मकपद्मककण्टका नाम त्रयो रोगाः पाण्डुना प्रहिता दृश्यन्ते । तान्विदूषको गजा च न वेत्ति, अतः पृच्छति ।
काल:--सत्यमेवेदम । मन्त्री---गजन, सिध्मकपदाककण्टकाः । विदपक:--(मभयम् ।) वअम्स. एदाणं एदे भटा पहारं कुणन्ति तदो ते वि अह्माणं उवरि पडिस्मन्ति । ता अम्मदो सिग्धं पलाअणं करेम । (ख) मन्त्री-विदूषक, मा भैषीः ।
गुञ्जाफलाग्निलेपः प्रतियोद्धा सिध्मपद्मयोः समरे ।
एप हरिद्राक्षारः कण्टकहृतये मया प्रहितः ॥ ४२ ॥ राजा-सुष्ट कृतममात्येन ।
काल:-गुञ्जाफलाग्निलेपहरिद्राक्षारानौषधिविशेषान्प्रहरतो दृष्ट्वा विदृषको ब्रवीति ।
कर्म-एवमेतत् । विदूषकः-अज, को एसो । (ग) (क) भो वयस्य, किमेतद्भासिनीप्राकारेऽपूर्व किमपि दृश्यते ।।
(ख) वयम्य, एतेषामेते भटाः प्रहारं कुर्वन्ति तदा तेऽप्यस्माकमुपरि पतिष्यन्ति । तदस्माच्छीघ्रं पलायनं कुर्मः ।
(ग) आर्य, क एपः ।
For Private and Personal Use Only