SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] जीवानन्दनम् । . कालः–कर्मन् , मन्त्रिणापि न विज्ञाता औपाधिकी राज्ञो बुभुक्षा । कर्म-बाढम् । विदूषकः-अमच्च, रण्णो दाणि बहुभक्खणणामहेऐ उवडिदे कज्जे । (क) मन्त्री कीदृशी बहुभक्षणता ।। विदपकः-किमण्णं । बुभुक्खिदो वग्यो विअ सव्वपकिदीणं अह्माणं जीवणं भक्खिदुकामो राआ मा खु णं णिवारेहि जं पलअकालकुविदो रुद्दो विअ चिट्ठदि । (ख) __ मन्त्री--(विहस्य । स्वगतम् ।) राज्ञः पानभोजनसंपादने स्वस्यापि तद्भविप्यतीत्येतस्य हृदयम् । (प्रकाशम् ।) गच्छाग्रतः । अहमप्यागमिष्यामि । (आकाशे दत्तदृष्टिः ।) किं न्वेतत्स्यात् । कार्यान्ववेक्षणविधौ सदसि स्थितेन येन समाजनि चिरं सहितुं बुभुक्षा । भुक्त्वा च यस्य कियदप्यशनं नितान्तं ___ तृप्तिर्भवेत्स कथमीदृशबुद्धिमेति ॥ ३६ ॥ काल:-अहं खलु प्राणिनामव्यवस्थितामवस्थां करोमि । कर्मः--बाढम् । अलमिदम् । अन्यदप्यचिन्तनीयं बुद्धिविलसितमिति जानामि । यत्किल दृष्ट्वा दक्षकृतापराधजनितक्रोधोज्झिताङ्गी सती यः शान्तस्तपसि स्थितः स गिरिशः खं प्रत्युपात्तायुधम् । कोपोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमज्वल उज्वालाजालविजृम्भणेन सहसा भस्मीचकार स्मरम् ॥ ३७ ॥ काल:---(विहस्य ।) शृणु तावत् । (क) अमात्य, राज्ञ इदानी बहुभक्षणनामधेये उपस्थिते कार्ये । (ख) किमन्यत् । बुभुक्षितो व्याघ्र इव सर्वप्रकृतीनामस्माकं जीवनं भक्षितुकामो राजा मा खल्वेनं निवारय यत्प्रलयकालकुपितो रुद्र इव तिष्ठति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy