________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विदूषकः--(सहर्षम् ।) अज एव्व एवं करणिजं । जेण अहं वि एदस्सि कजे तुअ सहाअत्तणे दक्खो होमि । जम्मेण तु विण्णाणेण भवं मिदभोअणे सव्वदा सिक्खीअदि तेण विण्णत्तो वि तुमं तस्स वअणं मा करेहि । (क)
राजा-साधु सखे, साधु । सम्यगुपदिष्टम् । तथा करिष्ये । काल:-वत्स, श्रुतं भवता ।।
कर्म-श्रुतमेव । एष पाण्डुना प्रहिताभपथ्यताजननीं वस्य बहु वु. भुक्षां न जानाति विदूषकोऽप्यजानन्नेवं भाषते ।
राजा-कः कोऽत्र भोः । विदूषकः-सिक्खिदो वि मए किं तुमं पडिऊलकारिणो अमच्चस्स आआरणत्थं दोआरिअं आमन्तेसि । (ख)
राजा--वयस्य, मा विभिहि । तव मतमेवानुसरामि । विदूषकः-जइ एव्वं थिरपडिण्णो होहि । एदम्स अविमरणत्यं वसणन्ते मए बद्धो गण्ठी । अहं जेव्व तं आणेमि । (ग) (इति निष्क्रम्यामोत्यन सह प्रविशति ।)
अमासः-सति दौवारिके राज्ञा किमर्थ त्वं प्रहितः । विदूषकः-एत्थ कज्जे अहं जेव्व दोवारिओ । (घ) अमास:-कीदृशे कार्ये । (क) अद्यैवैतत्करणीयम् । येनाहमप्येतस्मिन्कार्ये तब सहायत्वे दक्षो भवामि । जाल्मेन तु विज्ञानेन भवान्मितभोजने सर्वदा शिक्ष्यते तेन विज्ञप्तोऽपि त्वं तस्य वचनं मा कुरु ।
(ख) शिक्षितोऽपि मया किं त्वं प्रतिकूलकारिणोऽमात्यस्याकारणार्थ दौवारिकमामन्त्रयसि ।
(ग) यद्येवं स्थिरप्रतिज्ञो भव । एतस्याविस्मरणार्थं वसनान्ते मया बद्दो ग्रन्थिः । अहमेव तमानयामि ।
(घ) अत्र कार्येऽहमेव दौवारिकः ।
For Private and Personal Use Only