Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मत्री-राजा चाहं च रामलक्ष्मणाविव वर्तावहे । विदूषकः-अहं वि कोसिओ विअ । (क) राजा-(विहस्य ।) तादृक्प्रभावो महर्पिः खलु भवान् । विदूषकः-भो वअस्म, एसो अमच्चो एदाए में बलिं दाऊण अप्पाणं मोचेदं अहिलसन्तो विअ दीसइ । दाणिं भवं जेव मह सरणम् । (ख)
मत्री-वैधेय, क्षणं तूप्णी तिष्ठ । शृणुमः शेषमपि वचनमेषाम् । वातादयः-अयि रुचिमति,
त्वां वीक्ष्य जागरूकां तस्यां तम्यां रुचिप्रविष्टायाम ।
म्वत एव भिद्यतेऽसौ विज्ञानादञ्जसा राजा ॥ १४ ॥ राजा
आलापादेतेषां कुलालदण्डावघट्टनादिव मे ।
हृदयं भ्रमतीदानी सहसा चक्रमिव किं न्वेतत् ॥ १५ ॥ विदूषकः-अण्णं किम् । दिदं खु णिगिहीदो सि तुम एदाए अपत्थदापिसाचिआए । अहं उण छवेदो ब्रह्मणो हामित्ति सज्झसेण इमाए विसज्जिदो मि । (ग)
मत्री-(विहस्य ।) पड़ेदा इत्यनया संग्ख्ययैव सूचितं वेदविज्ञानम् ।
राजा--कि विस्मृतं त्वया यत्प्रागेव मम मनीपितार्थ विदृपकेण बोधितोऽसि ।
मन्त्री-(स्वगतम् ।) अहो त्रुटितसंघटिताया दाम्या विलसितं यदियन्तं कालं विम्मृतापि बुभुक्षा स्मृता सती राज्ञा हृदयमाकुलयति । (प्रकाशम् ।) तदप्यग्रे भविष्यति । देवेन तु एतद्वैरिप्रयुक्तमिति निश्चित्य तद्वशे न भवितव्यमिति बहुशः प्रार्थये ।
(क) अहमपि कौशिक इव ।
(ख) भो वयस्य, एपोऽमात्य एतस्या मां बलिं, दत्त्वा आत्मानं मोचयितुमभिलपन्निव दृश्यते । इदानीं भवानेव मम शरणम् ।
(ग) अन्यत्किम् । दृढं खलु निगृहीतोऽसि त्वमेतया अपथ्यतापिशाचिकया । अहं पुनः षड्ढेटो ब्राह्मणो भवामीति साध्वसेनानया विसर्जितोऽस्मि ।
For Private and Personal Use Only

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368