Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
जीवानन्दनम् ।
प्रज्ञागर्ववशान्मदीयविजये जाताभिलाषोऽब्रवी
दित्थं सान्त्वमपथ्यतां निजकुले स्नेहप्रकर्षान्विताम् ॥ १२ ॥ विदूषकः-कहं सन्तं उत्तवन्तो पाण्डू । (क) मन्त्री एवम् अप्यस्मत्कुलपक्षपातिनि पथा कामोपभोगप्रदे
किं नात्मप्रभवं कुलं गणयसि प्रक्षीयमाणं शनैः । औदासीन्यमिदं कुतस्तव विनोपेक्षां यदि व्यामृता
त्वं नालं बलवानपि प्रभुररिः स्थातुं कुतोऽस्यानुगाः ॥ ५३ ॥ अतस्त्वां विज्ञापयामि । संप्रति शत्रुपुरं प्रविशन्ती तत्तदभिमतेन तेन तेन रसेनाशयगतानस्मल्कुलकारकारसवाहिनीभिर्नाडीभिश्च पोषयन्ती राजानमपि म्ववशं नयन्ती भेदय विज्ञानहतकात् इत्युपदिश्य मन्दाग्निना सह प्रेपितवान् ।
विदूषकः-अच्चरिअं एदाए दृतत्तणं जाए पङ्गुणो वि चालिदा । पेक्ख दाणिं वि किं वि मन्तअन्ती चिट्टदि । सुणाहि दाव तूहीओ भविअ । (ख)
(ततः प्रविशन्त्यपथ्यतया सह मन्दाग्निवातकफपित्ताः ।) .. मन्दाग्निवातकफपित्ताः-अयि रसवति, किमु वक्तव्यमस्मदीया रोगा इति । यतम्त्वत्संततिः खल्वेते । त्वयैव वशीकृतेऽस्मिन्राजनि एतत्पुरे सुकरम्तेषां प्रवेशः । वयं तु तत्र निमित्तमात्रम् । काल:--कर्मन्, रसवतीत्यपश्यताया नामान्तरेण भवितव्यम् । कर्म---रुचिमतीत्यप्येतस्या नाम । विदूषकः-एसा ताडआ विअ भीसणा अणुवट्टदि । (ग) (क) कथं सान्त्वमुक्तवान्पाण्डुः ।
(ख) आश्चर्यमेतस्या दूतत्वं यया पङ्गयोऽपि चालिताः । पश्येदानीमपि किमपि मन्त्रयन्ती तिष्ठति । शृणु तावत्तूष्णीको भूत्वा ।
(ग) एपा ताइकेव भीषणानुवर्तते ।
For Private and Personal Use Only

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368