Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः
जीवानन्दनम् । काल:-रसरक्तमांसमेदोस्थिमज्जशुक्ररूपाः परिखात्वेन निरूपिताः ।
कर्म--एपां वृद्धौ श्लेप्मविद्रधिरक्तविसर्पादयो भवन्ति । कार्ये तु रौक्ष्यश्रमशोषादयः ।
काल:-युक्तं भवतोक्तम् ।
मन्त्री-एवमेते स्वामिकार्ये बद्धपरिकरा यतन्तु नाम । सन्त्येवैषां प्रतीकारशस्त्राण्यस्मदायत्तानि । विदपक:---कि एसा वादाली विअ मह अक्खीहि आउलेदि । (क) राजा---अहो प्रचण्डोऽयमनिलः । तथाहि । ताराच्यावयितुं धनान्विकिरितुं कृत्वार्कतूलोपमा
भित्त्वा पातयितुं भुवि क्षितिभृतां तुङ्गानि शृङ्गाणि च । मद्यः शोषयितुं समुद्रमवनीकर्तुं तु पांस्वात्मना
दागुन्मूल्य च भूरुहान्भ्रमयितुं शक्तो भवत्यम्बरे ॥ ५० ॥ पत्री----अयमेव वृद्धिशोपहेतुः परिखाणाम् । एनमुपजीव्योत्कुप्यन्ति शुप्यन्ति च सर्वतः परिखाः । विदूषकः--किं मूढो विअ पेक्वसि । कहि एदाणं पडीआरं । (ख) मत्री-अदृष्ट्वा किमेवं प्रलपसि ।
विदपक:---.(उपग्रीविकया विलोक्य ।) अच्चरिअं अच्चरिअं । एत्थ सत्तासत्ति वट्टइ । वडन्तेसु सत्तुसु एदे वीरा रोअउलं पहरन्दि । (ग)
मन्त्री-तत्र श्लेष्मप्रभृतीरक्तपुत्रांश्चन्द्रप्रभा प्रहरति । विदूषकः----कधं इत्थिआ वि सूराअदि । (घ) मत्री-रक्तपुत्राणां विसर्पप्लीहप्रभृतीनाममृतगुग्गुलुच(तृणपञ्चका(क) किमेपा वातालीव ममाक्षिणी आकुलयति । (ख) कि मृढ इव पश्यसि । कुतेषां प्रतीकारम् ।
(ग) आश्चर्यमाचर्यम् । अत्र शस्त्राशस्त्रि वर्तते । वर्धमानेषु शत्रुषु एत वीरा रोगकुल प्रहरन्ति ।
(घ) कथं स्त्री अपि शरायन ।
For Private and Personal Use Only

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368