Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 342
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] जीवानन्दनम् । संरम्भो भवतो वृथा स्मरयसि त्वं किं तृषं विस्तृतां पातुं शक्यत एप किं तव ततो मौढ्यं त्वयाविष्कृतम् ॥४६ ॥ (इति सभ्रक्षेपं तर्जयते ।) राजा-क एनमभिसरति । मत्री--एष मया नियुक्तो महातालेश्वरः । काल:--कर्मन्, औषधविशेषोऽयम् । विदूषकः---अध वेदिणीलोहिदाणं उवरि के वि उल्लूठअन्तो विअ दीसन्ति । (क) मत्री--सर्वेऽपि कुष्ठा गलगण्डादयश्च नृत्यन्ति । कर्म---भगवन् , वेदिनीलोहिते पञ्चमीषष्ठयो त्वनौ । तत्र कुष्ठादेरुत्पत्तिः। काल:--अस्त्येतत् । विदूषक:...-एत्थ उण थूलाणाम्मि सत्तमे पाआरे को वि लोहआरभत्थिआ विअ पूरिजमाणसरीरो दीसइ । (ख) मबी-स्थूलायां विद्रधिरेष शत्रुमल्लः । विदूषकः--(मभयम् । संस्कृतमाश्रिन्य ।) प्राकारसप्तकमपि प्रसभं गृहीत्वा खेद्यानि सप्त च विशोप्य तथैव कोषान । उल्लुण्ठयिप्यति रिपोर्निवहो भटानां ___ म्लायंस्त्वमन्ध इव मूढ इव स्थितोऽसि ॥ ४७ ॥ राजा-धिक प्रमादम् । हन्त विज्ञानशर्मन् , आक्रान्तमेवारिभिरान्तरम् । (क) अथ वेदिनीलोहितयोरुपरि केऽप्युल्लुठन्त इव दृश्यन्ते । (ख) अत्र पुनः स्थूलानाम्नि सप्तमें प्राकारे कोऽपि लोहकारभत्रिकेव पूर्यमाणशरीरो दृश्यते । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368