Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
जीवानन्दनम् । . कालः–कर्मन् , मन्त्रिणापि न विज्ञाता औपाधिकी राज्ञो बुभुक्षा । कर्म-बाढम् । विदूषकः-अमच्च, रण्णो दाणि बहुभक्खणणामहेऐ उवडिदे कज्जे । (क)
मन्त्री कीदृशी बहुभक्षणता ।। विदपकः-किमण्णं । बुभुक्खिदो वग्यो विअ सव्वपकिदीणं अह्माणं जीवणं भक्खिदुकामो राआ मा खु णं णिवारेहि जं पलअकालकुविदो रुद्दो विअ चिट्ठदि । (ख) __ मन्त्री--(विहस्य । स्वगतम् ।) राज्ञः पानभोजनसंपादने स्वस्यापि तद्भविप्यतीत्येतस्य हृदयम् । (प्रकाशम् ।) गच्छाग्रतः । अहमप्यागमिष्यामि । (आकाशे दत्तदृष्टिः ।) किं न्वेतत्स्यात् ।
कार्यान्ववेक्षणविधौ सदसि स्थितेन
येन समाजनि चिरं सहितुं बुभुक्षा । भुक्त्वा च यस्य कियदप्यशनं नितान्तं
___ तृप्तिर्भवेत्स कथमीदृशबुद्धिमेति ॥ ३६ ॥ काल:-अहं खलु प्राणिनामव्यवस्थितामवस्थां करोमि ।
कर्मः--बाढम् । अलमिदम् । अन्यदप्यचिन्तनीयं बुद्धिविलसितमिति जानामि । यत्किल
दृष्ट्वा दक्षकृतापराधजनितक्रोधोज्झिताङ्गी सती
यः शान्तस्तपसि स्थितः स गिरिशः खं प्रत्युपात्तायुधम् । कोपोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमज्वल
उज्वालाजालविजृम्भणेन सहसा भस्मीचकार स्मरम् ॥ ३७ ॥ काल:---(विहस्य ।) शृणु तावत् । (क) अमात्य, राज्ञ इदानी बहुभक्षणनामधेये उपस्थिते कार्ये ।
(ख) किमन्यत् । बुभुक्षितो व्याघ्र इव सर्वप्रकृतीनामस्माकं जीवनं भक्षितुकामो राजा मा खल्वेनं निवारय यत्प्रलयकालकुपितो रुद्र इव तिष्ठति ।
For Private and Personal Use Only

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368