Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 336
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] जीवानन्दनम् । ७७ ज्ञानमद्वैतसन्मानं विपक्षस्तत्र को वद । स्वरूपस्थितिरेतस्य स्मारिता पारमार्थिकी ॥ ३० ॥ मूढवद्देहतादात्म्यं राजा न प्रतिपद्यताम् । बाधितं तदग्धपटन्यायेनास्त्विति तस्य धीः ॥ ३१ ॥ तदुक्तमभियुक्तैः 'बाधितं दृश्यताम:म्तेन बाधो न शक्यते । जीवन्नाखुन माजीरं हन्ति हन्यात्कथं मृतः ॥ ३२ ॥ किं च । मायया बहुरूपत्वे सत्यद्वैतं न नश्यति । मायिकानां हि रूपाणां द्वितीयत्वमसंभवि ॥ ३३ ॥ कर्म-भगवन् , युज्यत एतत् । कालः–एवं च ज्ञानशर्मणोपजप्तोऽपि विज्ञानशर्ममन्त्रिमन्त्रवशात्प्रोत्साहितो राजा यदाचरिप्यति तदालोकयिप्यावहे । (भुवभवलोक्य ।) कथं विदूषकेण सहायमागच्छति राजा तत्रैव गच्छावः । (इति परिक्रामतः ।) (ततः प्रविशति राजा विदूषकश्च ।) राजासंख्यापेततया रसानपि भृशं षट्सेवमानस्य मे तेप्वेवातिबुभुक्षुता प्रतिमुहुहाहा सखे जायते । एवं व्यापृतिरैच्छिकी मम यतो भुञ्जेऽन्नराशीनहं पीयन्ते च रसालमाक्षिकदधिक्षीराज्य कुल्या मया ॥ ३४ ॥ अन्नान्येव निरन्तरं विवृणुतां सर्वाणि सस्यानि भू रि प्रावृषि कोऽपि वर्षतु दधिक्षीरात्मकं वारिदः । सर्वोऽयं लवणाम्बुराशिरपि चेदुग्धाम्बुधिर्जायतां भुञ्जानस्य तथापि हन्त पिवतो न क्षुत्पिपासाशमः ॥ ३५ ॥ तदतिशयेन संपादनीयो मम पानभोजनविधिरिदानीम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368