Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। प्रारब्धरहितस्यैवं भवेदेव न संशयः । प्रारब्धपरतन्त्रं त्वां ते मुञ्चन्ति कथं पुनः ॥ २५ ॥ किं च । श्लथाभिमाने पुरि हन्त देवे क्षोभो भवेत्त्वत्प्रकृतिप्वकस्मात् । ततोऽवकाशं प्रतिलक्ष्य सर्वे प्रत्यर्थिनम्ते प्रबला भवेयुः ॥ २६ ॥ किं च । यक्ष्मणि जाग्रति तस्मिन्पाण्डुज्वरसंनिपातपरिवारे । देवस्य कथं भविता स्थितिरिह यत्नादपि स्वरूपेण ॥ २७ ॥ इममर्थमप्रतिहतया प्रतिभया स्वयमेव विचारयतु देवः । कर्म-ततस्ततः । काल:-तत इत्यात्मनीनानि वचनान्याकर्णयन्कुतूहलाकुलितहृदयः समरयत्नकृतत्वरः मुहुर्मुहुस्तमित्थं प्रशंसन्नवोचत्त्वयि दत्तभरस्य मेऽधुना किं बहुनानेन विचारणश्रमेण । भवते ननु रोचते यथा वा यतितव्यं हि तथैव निर्विशङ्कम् ।। २८ ।। कर्म-ततस्ततः । काल:-ततश्च किल यदेवं देवस्य मनसो व्याकुलीभावः स सर्वोऽपि शत्रूपजाप इति मन्तव्यम् । अतो विज्ञापयामि । तिष्ठतु दाढ्यं मद्वचसि इति राजानं पर्यवस्थाप्य स्वकार्य एव व्याप्रियते । कर्म-भगवन् , ज्ञानविज्ञानयोरेकरूपयोरिव सतोः कुत इयान्विरोधः । काल:----वत्स, मोक्षे धीमा॑नमन्यत्र विज्ञानं शिल्पशास्त्रयोः । तयोविरोध इत्येतत्किमाश्चर्यकरं तव ॥ २९ ॥ कर्म-भवतु नाम तयोविरोधः । तदेवान्तरमुपलभ्य क्रियतां च द्विषद्भिपजापः । ज्ञानशर्मणा तु स्वामिहितैषिणा विपक्षानुकूलं पुराभिमानशैथिल्यं कथमुपदिष्टम् । काल:--नहि विपक्षानुकूलमिति न च तदीयोपजाप इति वा प्रवृत्तिरेतस्य । किं तु वस्तु तत्त्वमुपदेष्टव्यमित्येव तस्य स्वभावः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368