Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 334
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । किं च । संरक्ष्यते निजवशंवदसेवकेन ___ यः पाण्डुना विमतखण्डनपण्डितेन । सोऽयं प्रतापपरिदग्धपुरो विसर्प जेयः कथं कथय संप्रति राजयक्ष्मा ॥ २० ॥ कर्म-ततस्ततः । काल:--इति राज्ञो वचनमाकर्ण्य समञ्जसयुक्तिकं वचोऽब्रवीत् । राजन् , श्रृयताम् । वातादिजा यद्यपि सर्वरोगास्तथापि तानेव विनाशयन्ति । यथारणेवह्निरुदचिरुद्यन्दहत्ययत्नादरणिं तमेव ॥ २१ ॥ अपन्थानं त्विति न्यायादात्मद्रोहिषु तेप्वमी । आत्मजेष्वपि न स्नेहमातन्वन्त्यधुना प्रभो ॥ २२ ॥ अतस्तदधिष्ठितमपि पुरं स्वाधीनमेवेति निश्चिनु । किं च । स्वायत्ते नगरे तस्मिन्स्वामिपादप्रसादतः । जयश्रियं हस्तगतां जानातु भगवान्क्षणात् ॥ २३ ॥ कर्म-ततस्ततः । काल:-इत्थं मत्रिवरवचननिशमनेन किंचिदिव निर्वृतचेतसा राज्ञा मनिन् , 'इयतापि कालेन पुरस्य स्वायत्तत्वे किमनेन फलं पश्यसि' इति पृष्टो मन्त्री कथयामास पुरस्य दाढये योगस्य सिद्धिः सर्वार्थसाधिनी । अखण्डानन्दसिद्धिश्च फलं तेनैव जायते ॥ २४ ॥ कर्म-ततस्ततः । काल:-इत्याकर्ण्य क्षुद्राभिमानेन न भवतीष्टसिद्धिः। प्रत्युत हानिरेव फलम् । अतः स्वयमेव त्यक्तेष्वेतेषु सिद्धैवात्मनो दृढयोगसिद्धिरखण्डानन्दता च । कुत एतावान्यत्न इति वदति राजनि पुनरपीत्थं समाहितवान्मन्त्री For Private and Personal Use Only

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368