________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवानन्दनम् ।
किं च ।
संरक्ष्यते निजवशंवदसेवकेन ___ यः पाण्डुना विमतखण्डनपण्डितेन । सोऽयं प्रतापपरिदग्धपुरो विसर्प
जेयः कथं कथय संप्रति राजयक्ष्मा ॥ २० ॥ कर्म-ततस्ततः । काल:--इति राज्ञो वचनमाकर्ण्य समञ्जसयुक्तिकं वचोऽब्रवीत् । राजन् , श्रृयताम् ।
वातादिजा यद्यपि सर्वरोगास्तथापि तानेव विनाशयन्ति । यथारणेवह्निरुदचिरुद्यन्दहत्ययत्नादरणिं तमेव ॥ २१ ॥
अपन्थानं त्विति न्यायादात्मद्रोहिषु तेप्वमी ।
आत्मजेष्वपि न स्नेहमातन्वन्त्यधुना प्रभो ॥ २२ ॥ अतस्तदधिष्ठितमपि पुरं स्वाधीनमेवेति निश्चिनु । किं च ।
स्वायत्ते नगरे तस्मिन्स्वामिपादप्रसादतः ।
जयश्रियं हस्तगतां जानातु भगवान्क्षणात् ॥ २३ ॥ कर्म-ततस्ततः ।
काल:-इत्थं मत्रिवरवचननिशमनेन किंचिदिव निर्वृतचेतसा राज्ञा मनिन् , 'इयतापि कालेन पुरस्य स्वायत्तत्वे किमनेन फलं पश्यसि' इति पृष्टो मन्त्री कथयामास
पुरस्य दाढये योगस्य सिद्धिः सर्वार्थसाधिनी ।
अखण्डानन्दसिद्धिश्च फलं तेनैव जायते ॥ २४ ॥ कर्म-ततस्ततः ।
काल:-इत्याकर्ण्य क्षुद्राभिमानेन न भवतीष्टसिद्धिः। प्रत्युत हानिरेव फलम् । अतः स्वयमेव त्यक्तेष्वेतेषु सिद्धैवात्मनो दृढयोगसिद्धिरखण्डानन्दता च । कुत एतावान्यत्न इति वदति राजनि पुनरपीत्थं समाहितवान्मन्त्री
For Private and Personal Use Only