SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ काव्यमाला । __ कर्म-भगवन् , इत्थं ज्ञानशर्मणोपजप्तस्यापि जीवस्य राज्ञः कथमधुना रिपुवधे प्रवृत्तिः । __ काल:- श्रूयताम् । इत्थं ज्ञानशर्मा राज्ञो रहस्युपजापं कुर्वन्सेनासंनिवेशादागतस्य विज्ञानशर्मणो वचनमाकर्ण्य न नः परमिह स्थातव्यमिति राजानमामन्य जगाम । कर्म-ततस्ततः । काल:-ततश्च निष्क्रान्ते ज्ञानशर्मणि प्रविश्य विज्ञानशर्मा राजानमालोक्य अये, किमयमपूर्व इव राजा पुरादिषु परित्यक्ताभिमान इव दृश्यते । तद्बहुधा ज्ञानशर्मणोपजापितः स्यात् । भवतु । सर्वमिदं स्वयमेव व्यक्तीभविष्यति । (इति राजसमीपं गतः ।) कर्म-ततस्ततः । काल:-राजा च तमालोक्य सावहित्थस्तमनुसरन्निव सादरमप्रच्छत् । 'मन्त्रिन्, कथय कीदृशः पुरवृत्तान्तः परवृत्तान्तश्च' इति । कर्म-ततस्ततः । काल:-- इति राज्ञा समाज्ञप्तो नयज्ञो मन्त्रिशेखरः । प्रत्युत्तरं तदादत्त प्रज्ञावज्ञातवाक्पतिः ॥ १७ ॥ स्वायत्तं पुरमेव नः समननि स्वामिन्भवच्छासना त्तत्तद्देशनिविष्टपत्रनिचयव्यापारसंरक्षितम् । निर्दग्धा भवतः प्रतापमहसा नूनं पतङ्गा इव प्रत्यर्थिप्रकरा भवेयुरधुना नामावशेषाः क्षणात् ॥ १८ ॥ कर्म-ततस्ततः । काल:-इत्याकर्ण्य राजा ज्ञानशर्मवचोऽनुस्मरन्नुभयोर्मतयोरपि दोलायमानमानस इतिकर्तव्यतामव्यवस्यन्नित्थमाक्षेपमुखेन व्याजहार । निसर्गतो ये रिपवो हि रोगा वातादिभिस्तजनकैः समन्तात् । अधिष्ठितेऽस्मिन्कुटिलैः प्रवृत्त्या स्वायत्तता हन्त कथं पुरे नः ॥ १९ ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy