________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
जीवानन्दनम् ।
अतः किल
विज्ञानशर्महतकस्य वृथा कुमन्त्रै
घोरामिमां सुमहतीं गतमापदं त्वाम् । आकर्ण्य देव हितवागुपदेशहेतो
रद्यान्तिकं तव गतोऽस्म्यनृणो बुभूषुः ।। १२ ॥ कर्म-ततस्ततः। कालः–ततश्च राजा सरलप्रकृतितया 'सखे ज्ञानशर्मन्, चिरेण दृष्टोऽसि । त्वत्तोऽपि मे श्रेयःसंपादकः कोऽन्योऽस्ति । तत्कथय प्रस्तुतोचितं हितम्' इति तमन्वयुङ्क्त ।
कर्म-ततस्ततः। काल:--ततो ज्ञानशर्मा राजानमुपहरे स्वैरमित्थं बोधयामास । शश्चन्नश्वरमेव विश्वविदितं पापप्ररोहस्थलं
मेदोमज्जवसास्थिमांसरुधिरत्वग्रोमकूपं वपुः । एतस्मिन्मलमूत्रभाण्डकुहरे हेये मनीषावतां
दुःखे न्यायविदो विमोहमिह के तन्वन्ति नन्वन्तिमे ॥ १३ ॥ जगत्प्रोतं यस्मिन्विविध इव सूत्रे मणिगणः
समस्तं यद्भासा तदपि च विभाति स्फुटमिदम् । अखण्डानन्दं यन्निरवधिकसच्चित्सुखमयं निराकारं यत्तत्त्वमसि परमं ब्रह्म न पुमान् ॥ १४ ॥ तत्तादृशः सुखघनस्य निरञ्जनस्य ___ सर्वात्मनापि ननु हेयतरे पुरेऽस्मिन् । विज्ञानशर्मवचनैविपरीतवृत्ते
मन्ये न युक्त इव ते ममताभिमानः ॥ १५ ॥ इत्यादिभिर्बहुविधैरुपपत्तिपूर्व
रेतैर्वचोभिरथ तेन रहः प्रयुक्तैः ।। कोषे बले रिपुवधे च बभूव सद्यो
जीवो विरक्तहृदयो विगताभिमानः ॥ १६ ॥
For Private and Personal Use Only