Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 337
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विदूषकः--(सहर्षम् ।) अज एव्व एवं करणिजं । जेण अहं वि एदस्सि कजे तुअ सहाअत्तणे दक्खो होमि । जम्मेण तु विण्णाणेण भवं मिदभोअणे सव्वदा सिक्खीअदि तेण विण्णत्तो वि तुमं तस्स वअणं मा करेहि । (क) राजा-साधु सखे, साधु । सम्यगुपदिष्टम् । तथा करिष्ये । काल:-वत्स, श्रुतं भवता ।। कर्म-श्रुतमेव । एष पाण्डुना प्रहिताभपथ्यताजननीं वस्य बहु वु. भुक्षां न जानाति विदूषकोऽप्यजानन्नेवं भाषते । राजा-कः कोऽत्र भोः । विदूषकः-सिक्खिदो वि मए किं तुमं पडिऊलकारिणो अमच्चस्स आआरणत्थं दोआरिअं आमन्तेसि । (ख) राजा--वयस्य, मा विभिहि । तव मतमेवानुसरामि । विदूषकः-जइ एव्वं थिरपडिण्णो होहि । एदम्स अविमरणत्यं वसणन्ते मए बद्धो गण्ठी । अहं जेव्व तं आणेमि । (ग) (इति निष्क्रम्यामोत्यन सह प्रविशति ।) अमासः-सति दौवारिके राज्ञा किमर्थ त्वं प्रहितः । विदूषकः-एत्थ कज्जे अहं जेव्व दोवारिओ । (घ) अमास:-कीदृशे कार्ये । (क) अद्यैवैतत्करणीयम् । येनाहमप्येतस्मिन्कार्ये तब सहायत्वे दक्षो भवामि । जाल्मेन तु विज्ञानेन भवान्मितभोजने सर्वदा शिक्ष्यते तेन विज्ञप्तोऽपि त्वं तस्य वचनं मा कुरु । (ख) शिक्षितोऽपि मया किं त्वं प्रतिकूलकारिणोऽमात्यस्याकारणार्थ दौवारिकमामन्त्रयसि । (ग) यद्येवं स्थिरप्रतिज्ञो भव । एतस्याविस्मरणार्थं वसनान्ते मया बद्दो ग्रन्थिः । अहमेव तमानयामि । (घ) अत्र कार्येऽहमेव दौवारिकः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368