Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 315
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। वीर्य प्रसन्नमसुमत्सु च शीतवाता विष्टेषु तत्र शिखिनोदयते विदाहः ॥ ३४ ॥ स एव पित्तसंचयमापादयति । राजा-शरदि कथम् । मत्री-- मासौ शरत्कार्तिकमार्गशीर्षों तत्राभ्रकार्ये सति पङ्कशोषः । विलापितः पित्तचयोऽर्कभासा सपैत्तिकं व्याधिकुलं प्रसूते ॥ ३५ ॥ राजा-हेमन्ते कीदृशो रोगः । मत्री-श्रूयताम् । हेमन्तः पौषमाधाविह भवति बलं वीर्यमप्यौषधीनां स्निग्धाश्चापः प्रसन्ना भृशगरिमभृतो याः पिबन्त्यङ्गभाजः । मन्दांशुत्वाच्च भानोः सहिममरुदुपस्तम्भिताङ्गेषु देहि प्वेषु स्नेहाद्विदग्धाद्भवति हिमभराच्छेप्मणः संचयश्च ॥ ३६ ॥ राजा-कदा पुनरयं श्लैष्मिकान्व्याधीञ्जनयति । मन्त्री–फाल्गुनचैत्रमासरूपे वसन्ते यतोऽर्करश्मिप्रविलापितः श्लेष्मसंचयोऽस्मिन्नृतौ भवति । एवं च । निःसारा रौक्ष्यभाजो दधति च लघुतामोषधीनां समूहाः ___ सर्वे ते ग्रीष्मसंज्ञां भजति किल ऋतौ ज्येष्ठवैशाखरूपे । तस्मिन्सूर्यप्रतापग्लपिततनुभृतां लाघवाचापि रौक्ष्या___ जन्तूनां पीयमानं जनयति सलिलं संचयं मारुतस्य ।। ३७ ॥ स संचयः प्रावृषि शीतवातवर्षरितो वातिकरोगकारी । क्लिन्नाङ्गभाजां पयसैव नित्यं प्रकोपहेतुस्त्रयसंचयस्य ॥ ३८ ॥ राजाको मासौ प्रावृट् । मत्री-आषाढश्रावणौ तथा भिषम्भिरुच्यते । राजा-कदा पुनरेषामुपशमः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368