________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
वीर्य प्रसन्नमसुमत्सु च शीतवाता
विष्टेषु तत्र शिखिनोदयते विदाहः ॥ ३४ ॥ स एव पित्तसंचयमापादयति ।
राजा-शरदि कथम् । मत्री-- मासौ शरत्कार्तिकमार्गशीर्षों तत्राभ्रकार्ये सति पङ्कशोषः । विलापितः पित्तचयोऽर्कभासा सपैत्तिकं व्याधिकुलं प्रसूते ॥ ३५ ॥ राजा-हेमन्ते कीदृशो रोगः । मत्री-श्रूयताम् । हेमन्तः पौषमाधाविह भवति बलं वीर्यमप्यौषधीनां
स्निग्धाश्चापः प्रसन्ना भृशगरिमभृतो याः पिबन्त्यङ्गभाजः । मन्दांशुत्वाच्च भानोः सहिममरुदुपस्तम्भिताङ्गेषु देहि
प्वेषु स्नेहाद्विदग्धाद्भवति हिमभराच्छेप्मणः संचयश्च ॥ ३६ ॥ राजा-कदा पुनरयं श्लैष्मिकान्व्याधीञ्जनयति । मन्त्री–फाल्गुनचैत्रमासरूपे वसन्ते यतोऽर्करश्मिप्रविलापितः श्लेष्मसंचयोऽस्मिन्नृतौ भवति । एवं च । निःसारा रौक्ष्यभाजो दधति च लघुतामोषधीनां समूहाः ___ सर्वे ते ग्रीष्मसंज्ञां भजति किल ऋतौ ज्येष्ठवैशाखरूपे । तस्मिन्सूर्यप्रतापग्लपिततनुभृतां लाघवाचापि रौक्ष्या___ जन्तूनां पीयमानं जनयति सलिलं संचयं मारुतस्य ।। ३७ ॥ स संचयः प्रावृषि शीतवातवर्षरितो वातिकरोगकारी । क्लिन्नाङ्गभाजां पयसैव नित्यं प्रकोपहेतुस्त्रयसंचयस्य ॥ ३८ ॥ राजाको मासौ प्रावृट् । मत्री-आषाढश्रावणौ तथा भिषम्भिरुच्यते । राजा-कदा पुनरेषामुपशमः ।
For Private and Personal Use Only