________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः]
जीवानन्दनम् ।
मन्दारबकुलचम्पककुरबकसहकारमञ्जरीलोलः ।
अलिनिकरः केलिश्लथवनलक्ष्मीकेशपाश इव लसति ॥ ३० ॥ देवी-पेक्खदु भवं । (क) किअमाले टिट्टिभओ रसालरुक्खम्मि कोइलो वसइ ।
णीवविडवे सिहण्डी जम्बूसिहरे सुओ एको ॥ ३१ ॥ विदूषकः---(उपमृत्य ।) जेदु वअस्सो । देवि, सोत्थि भोदीए । (ख) मत्री-देव, विजयी भव । देवि, जयतु भवती । राजा-अत्र निषीदतु वयस्यः । इहास्यताममात्येन । मन्त्री-(उपविश्य उद्यानभूमिमभितो विलोक्य ।) आश्चर्यमाश्चर्यम् । इहोद्याने तादृक्पशुपतिदयासादितमहा
महिम्नस्ते सेवारसपरवशाः सर्वत इमे । यथास्वं पुप्प्यन्तो युगपदृतवः संनिदधते
प्रसङ्गादत्राहं कतिचन वदाम्यातवगुणान् ॥ ३२ ॥ राजा-अवहिताः शृणुमस्तावत् । (पुरो विलोक्य ।) मन्त्रिन , पश्य पश्य। स्फुटकुटजमन्दहासा कदम्बमुकुलाभिरामरोमाञ्चा । नीलाम्बुदकुचविगलद्धनपुप्पा विहरतीव वनलक्ष्मीः ॥ ३३ ॥ मन्त्री-राजन् , तर्हि वर्षा एताः । पित्तसंचयोऽत्र भवति । एवं हि ऋतुचर्या भिपजो भाषन्ते ।
राजा-कथमिव । मन्त्री
शंसन्ति भाद्रपदमाश्वयुजं च वर्षा
स्तास्वौषधिप्रचुरता सुदृशोऽल्पवीर्याः । (क) पश्यतु भवान् ।
कृतमाले टिट्टिभको रसालवृक्षे कोकिलो वसति ।
नीपविटपे शिखण्डी जम्बूशिखरे शुक एकः ॥ (ख) जयतु वयस्यः । देवि, स्वस्ति भवत्यै ।
----
For Private and Personal Use Only