________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
राजा-तत्रैवावस्थीयतां भवता । अहमपि प्रकृतमाह्निकं निर्वांगच्छामि । (इति दौवारिकेण सह निष्क्रान्तः ।)
(नेपथ्ये ।) अभ्यक्तः स्नापिताङ्गः शुचिवसनधरो जप्यमन्त्राञ्जपित्वा
देवानभ्यर्च्य भक्त्या घुमघुमितवपुश्चन्दनैश्चन्द्रमित्रैः । रज्यत्ताम्बूलपूर्णाननसरसिरुहो रम्यमारामभागं
साकं देव्यैष राजा प्रविशति सुलभो यत्र दोलाविहारः ॥ २६ ॥ मत्री-(आकर्ण्य ।) यत्र महाराजस्तिष्ठति तत्रैव गच्छामः । (इति विद्षकेण सह परिक्रामति ।)
(ततः प्रविशति देव्या सह राजा ।) राजा-देवि, पश्य पश्य रामणीयकमारामस्य । क्रीडच्चिक्रीडदन्तक्षतविवरगलन्नालिकेराम्बुधारा___ संपूर्णावालपुष्प्यत्फलड्डुहुकदलीदाडिमीमातुलुङ्गा । संपुष्प्यत्पूगपाली परिमलमिलितोत्फुल्लमालत्युदञ्च
सौरभ्योच्छ्रायलभ्यश्रमशमपथिका सेयमारामसीमा ॥ २७ ॥ देवी-मलअपवणचलिदतरुलदापुप्फगन्धा दिसासु विसप्पन्ति । इदो तदो परिव्भमन्तो भमरा कलं कूजन्दि । (क)
राजा-युक्तमाह भवती। कुरबककलिका विलोकमाने तरुणपिके मृदु गायति द्विरेफे ।
नटति किल मुहुः कृतोपदेशा मलयमहीध्रभवेन मारुतेन ।। २८ ।। देवि, सर्वतश्चारय चारुसरोरुहदलस्मयमुषी चक्षुषी ।
कंदीगममन्त्रपाठखरे पुंस्कोकिले कानन___ श्रीपाणिग्रहमङ्गले सति मधोदेवस्य दीप्तौजसः । वह्नौ पाटलकान्तिपल्लवमये स्मेरप्रसूनोत्करः
प्रक्षिप्तस्य मतिं न किं वितनुते लाजवजस्याधुना ॥ २९ ॥ (क) मलयपवनचलिततरुलतापुष्पगन्धा दिशासु विसर्पन्ति । इतस्ततः परिभ्रमन्तो भ्रमराः कलं कूजन्ति ।
For Private and Personal Use Only