SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] जीवानन्दनम् । राजा-(सप्रश्रयम् ।) परमनुगृहीतोऽस्मि । इदं तु प्रार्थये । या प्रीतिरविवेकानामिति न्यायात्सदा मम । हृदयान्मापसर्प त्वं प्रसीद करुणानिधे ॥ २४ ॥ भक्तिः –तथा भवतु । (स्मृति प्रति ।) अयि वत्से, एतत्त्वदायत्तम् । स्मृतिः-भअवदि, अवहिदह्मि । (क) भक्तिः -तथा भवतु । (इति निष्क्रान्ता ।) राजा-(सोत्कण्ठम् ।) कथं गतवती भगवती । (स्मृति प्रति ।) सखि, सर्वदा हृदि संनिहिता भव । स्मृतिः-तह । (ख) (इति निष्क्रान्ता ।) _ (प्रविश्य) दौवारिकः-देव, एसो अमच्चो भुत्तवन्तेण विदूसएण अणुगदो आअच्छदि । (ग) (ततः प्रविशति मन्त्री विदूषकश्च ।) मत्री-भोः, साधु भुक्तं भवता । विदूषकः-देवीए बुद्धीए साहुपडिवेसणं किद जहमणोरहं उदरं पूरिअम् । (घ) (सहर्ष संस्कृत्यमाश्रित्य ।) भूमौ साधु वितत्य गारुडमणिश्यामं कदल्या दलं ___ शाल्यन्यं घृतपक्कफाणितमथापूपैः सहावार्पितम् । धन्या एव हि सूपपायसमधुक्षीराज्यदध्यन्वितं ___ नानाशाकयुतं फलैश्च मधुरैरेवं सदा भुञ्जते ॥ २५ ॥ मत्री-भुक्तवतोऽप्येवमिहादरश्चेत्किमुत बुभुक्षितस्य । (राजानमुपसृत्य ।) विजयतां देवः । देवानुज्ञया सर्वेऽपि सामन्ता यथार्ह संभाविताः । अयमपि बटुराकण्ठमभीप्सिताभ्यवहार्येण भोजितो देव्या । तद्देवेनापि स्नानपूजनभोजनादिविधिनिवर्त्यताम् । (क) भगवति, अवहितास्मि । (ख) तथा । (ग) देव, एषोऽमात्यो भुक्तवता विदूषकेणानुगत आगच्छति । (घ) देव्या बुद्धया साधुपरिवेषणं कृतं यथामनोरथमुदरं पूरितम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy