SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ काव्यमाला। श्रद्धा-जुज्जइ एदं णिरुपधिणिरवधिकरुणाए भअवदीए । ता एहि तं जेव्व अणुग्गहीदुम् । (क) राजा-अहो अमृतासारमयः कोऽप्यालापः कर्णविवरमाप्याययति । सखि, किमागतवती भगवती । स्मृतिः-को संदेहो । (ख) राजा-(पुरोऽवलोक्य ।) अहो । निरुपाधिकनिःसीमकरुणामृतवारिधिः । दिष्टया दृष्टा भगवती पुमर्थघटनापटुः ॥ २० ॥ (उत्थाय सरभसं प्रत्युद्गच्छति । श्रद्धाभक्ती परिक्रम्योपसर्पतः । राजा साष्टाङ्गं प्रणमति ।) भक्तिः-सकलाभीष्टभाजनं भूयाः । श्रद्धा-जेदु जेदु देवो । (ग) राजा--(उत्थाय ।) देवि निरूपधिकरुणानिधे, अपराधिनमपि मामेवमनुगृहीतवत्यसीति सकलमनोरथानामुपरि वर्तामहे ।। अवने हि निरागसां जनानां भजतां जाग्रति दैवतान्तराणि । अवनाद्विहितागसोऽपि मेऽस्तु प्रथितं ते निरुपाधिवत्सलत्वम् ॥ २१ ॥ उक्तं चात्राभियुक्तैः । प्रवहन्ती तु दया तव परिहृतनीचोच्चवस्तुवैषम्या। पततु मयि स्फुटमधुना पङ्गोरुपरीव गगनगङ्गोर्मिः ॥ २२ ॥ भक्तिः-देव, भवान्मामनुसृत्य बलवदुत्कण्ठितः प्रकृतकार्यविमुखः संवृत्त इति श्रुत्वा तत्रभवन्तं सान्त्वयितुमागतास्मि । संप्रति विज्ञानमन्त्रिमतानुसारेणैव प्रकृतशत्रुविजयाय व्याप्रियस्व । तदनन्तरम् निर्जितनिखिलविपक्ष नीरुजमुरुसुस्थमपगतातङ्कम् । अहमागत्य विधास्ये परमानन्दाब्धिमाप्तकामं त्वाम् ॥ २३ ॥ (क) युज्यत एतन्निरुपधिनिरवधिकरुणाया भगवत्याः । तदेहि तमेवानुग्रहीतुम् । (ख) कः संदेहः । (ग) जयतु जयतु देवः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy